This page has been fully proofread once and needs a second look.

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
अहस्संवत्सरो व्याळः प्रत्ययस्सर्वदर्शनः ॥ १० ॥
 
(86) सुरेश: – ब्रह्मादीनां फल्गुपदलिप्सूनां त्रिदिवौकसाम् । संविधाता
सुरेशश्च प्रोच्यते विबुधोत्तमैः ॥ (87) शरणम्-आर्तानामार्तिहन्तृत्वात्
शरणं परिकीर्तितः । यदुपासं भयं दुःखं पापं बन्धो न बाधते ॥ प्रतिष्ठा
च सुखं ज्ञानं भवेत् शरणमित्यतः । (88) शर्म - परमानन्दरूपत्वात्
शर्म हिंसादिमन्थनात् ॥ (89) विश्वरेताः – विश्वं रेतो भगवतो विश्वरेता
हरिः स्मृतः । ज्ञानेन्द्रियादिकं विश्वं परिचर्याथमेव हि ॥ यः प्रजानां
करोतीति विश्वरेत.……………………………….………………………ता <flag></flag>करणैः
तस्मिन्नभिमुखाः प्रजाः । सर्वाश्चैव भवन्तीति प्रजाभव उदाहृतः ।
(91) अहः - न सन्ति हीना यस्येति त्वहस्स परिकीर्तितः । अनाद्यविद्या-
निद्रायां स्वधीहेतुतयाऽप्यहः ॥ (92) संवत्सर: - इत्थं तेषु प्रबुद्धेषु
वसत्युद्धरणाय यः । सवाल, संवत्सरः। (93) व्यालः - <flag></flag> एतानात्मसार्च
करोतियः । (94) प्रत्ययः - योऽसौ प्रत्याययति तान् प्रत्ययः स उदाहृतः ॥
(95) सर्वदर्शन:- महिमानं सर्वसहं तेषां दर्शयतीति सः । सर्वदर्शन
आख्यातो नवार्णो लोचनप्रदः ॥
 
अजस्सर्वेश्वरस्सिद्धस्सिद्धिस्सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिस्सृतः ॥ ११ ॥
 
(96) अजः - प्रत्यर्थिनः स्वसंप्राप्तौ प्रजानां क्षिपतीत्यजः । (97)
सर्वेश्वर:- अशक्तानां च शक्तानां वैरूप्यं शरणैषिणाम् । अश्नुते परि-
हर्तुं यः स सर्वेश्वर ईरितः ॥ (98) सिद्धः – स्वरूपेणैव भक्तानां सिद्धत्वात्
सिद्ध उच्यते ॥ (99) सिद्धि:- अयमेव ह्युपायैश्च सिद्धिः स्यात् साध्यते
यतः । (100) सर्वादिः - सर्वेषां पुरुषार्थानां मूलं सर्वादिरीरितः ॥
(101) अच्युतः - भक्तेभ्योऽच्युतपुर्वत्वादच्युतः परिकीर्तितः । आश्रितानां
च्युतिर्यस्मान्नास्ति सोऽच्युत ईरितः ॥ (102) वृषाकपिः- कपिर्वराह:
श्रेष्ठश्च धर्मश्च वृष उच्यते । तस्मात् वृषाकपिः प्रोक्तो वस्वर्णोऽ-
भीष्टदो मनुः ॥ (103) अमेयात्मा - इयानित्यपरिच्छेद्यस्वभावात् सर्व-
तोऽधिकः । अमेयात्मा समुद्दिष्टो ह्यौन्नत्यफलदो मनुः ॥ (104) सर्व-
योगविनिस्सृतः– सर्वैरुपायैः प्राष्यश्च सर्वयोगविनिस्सृतः ।