This page has been fully proofread once and needs a second look.

श्रीविष्णु सहस्रनामस्तोत्रम्
 
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।

हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८ ॥
 

 
-
 
-
 

 
(65) ईशानः - सर्वावस्थासु सर्वेषां व्यवस्थापनशीलतः ।

वस्तूनां भगवान् साक्षात् ईशानः परिकीर्तितः ॥ (66) प्राणदः – सूरिभ्यः

परिचर्यादौ बलदः प्राणदः स्मृतः । (67) प्राणः- उज्जीवनस्य हेतुत्वात्

नराणां प्राण ईरितः । (68) ज्येष्ठः – सर्वदाऽनुभवेऽप्ये तैरदृष्टापारभूतितः ।

ज्येष्ठः (69) श्रेष्ठः – श्रेष्ठश्च तैर्नित्यं स्तुतत्वादभिधीयते ॥ (70) प्रजापतिः -

बद्धादुत्कृष्टतो ये च जायन्ते सूरयः प्रजाः । तेषां यो नित्यसूरीणां पतिस्स

स्यात् प्रजापतिः ॥ (71) हिरण्यगर्भः- [हिरण्यं परमं धाम हिरण्यस्य

समानतः । हिरण्यगर्भस्स प्रोक्तस्तस्मिन् वसति यस्सदा ॥] (72. भूगर्भः-

यस्य भूर्भरणीयाऽभूत् भूगर्भोऽनुभवेन सः । (73, माधवः – श्रियः

श्रद्धादिनाम्न्याश्च पतिर्माधव इष्यते ॥] (74) मधुसुसूदनः-

मध्वाख्य

मसुरं हन्ति सुसूरीणां करणं च वा । उपसंहरति स्वस्मिन् मधुसूदन

प्ष्यते ॥
 

 
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।

अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ ९ ॥
 
-
 

 
(75) ईश्वर: – ईशनात् रमण ज्याच्चापि त्वीश्वरः परिकीर्तितः । (76)

विक्रमी - विक्रमः पौरुषं प्रोक्तः तद्वत्त्वात् विक्रमी बुधैः (77) धन्वी - पौरु-

षानुगुणं शार्ङ्गे यस्य धन्वी स कथ्यते । (78) मेधावी - निस्सीमभूमानु-

गुणनित्यसार्वश्ज्ञ्यलक्षणा । मेधा यस्यास्ति स प्रोक्तः मेधावीति विचक्षणैः ।

(79) विक्रमः गमनं पक्षिराजेन यस्य विक्रम उप्ष्यते ॥ (80) क्रमः-

क्रमणात् क्रमहेतुत्वात् क्रम एवमुदाहृतः । 81 अनुत्तमः - उत्तमो

नास्ति यस्मात् स त्वनुत्तम उदाहृतः] (82 दुराधर्षः - अपांनिधिवदक्षो-

भ्यः दुराधर्ष इतीरितः । दुर्विज्ञेयगतिर्यस्मात् दुराधर्षः प्रकीर्तितः ।

(83) कृतज्ञः - प्राणिभिर्यत् कृतं कर्म तज्ज्ञात्वा फलदो प्रतः । पत्रपुष्पा-

दिना तुष्टः कृतशोज्ञो मोक्षदानतः । (84) कृतिः - यस्मात् प्रसन्नात् सुकृतं

तेषां स कृतिरिष्यते ॥ प्रयत्नो वा किक्रिया वाऽथ कृतिरुक्ता क्रियावताम् ।

(85) आत्मवान् - एषामात्म शरीरादिनिरासादथ वाऽऽत्मवान् । स्वे

महिम्नि प्रतिष्ठानादात्मवान् अभिधीयते
 
-