2023-06-12 17:05:11 by jayusudindra
This page has been fully proofread once and needs a second look.
नाभौ यस्य स उच्यते । पद्मनाभश्चाष्टवर्णो महासन्तानदो मनुः ।
(49) अमरप्रभु:- सृष्ट्यादिष्वपि देवानामधिकारप्रदानतः । अमरप्रभु-
रित्युक्तो नवार्णः सर्वदो मनुः ॥ विश्वकर्मा – विश्वञ्च जगतः कर्म व्यपारो
यस्य लक्षणम् । प्राक् ब्रह्मसृष्टेरूर्द्ध्वे च विश्वकर्मेति कथ्यते । (51) मनुः -
संकल्पलवमात्राच्च मननान्मनुरुर्च्यते ॥ (52) त्वष्टा - नामरूपव्याकरणात्
त्वष्टा सृष्टस्य गद्यते । (53) स्थविष्ठः - बहूभवंश्च सूक्ष्माणां स्थूलावस्थ-
तया च सः ॥ विस्तारवत्त्वाद्यः स्थूलः स्थविष्ठः परिकीर्तितः । (53)
स्थविरः – कालातन्त्रतया दुग्धदध्यादिभ्यो विलक्षणः । विद्यते यः
सर्वकालं स्थविर: परिकीर्तितः । (55) ध्रुवः - अप्रच्याव्यस्वस्वरूपात्
सदा योऽसौ ध्रुवः स्मृतः ॥
अग्राह्यश्शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतस्त्रिककुद्घा (ब्धा ) म पवित्रं मङ्गळं परम् ॥ ७ ॥
(56) अग्राह्यः - अग्राह्यो योऽनधिष्ठेयो मृत्तिकेव कुलालकैः । (57)
शाश्वतः– अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः ॥ अतः सदा
प्रवाहत्वात् नित्यः शाश्वत उच्यते । (58) कृष्णः - एकान्तलीलारसतो
निर्वृतः कृष्ण उच्यते ॥ कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः
(59) लोहिताक्षः– रक्तराजीवनयनो लोहिताक्षः प्रकीर्तितः ॥ (60)
प्रतर्दनः – यस्य ब्रह्म क्षत्रंमेवमोदनो भवतस्सदा । प्रतर्दनः स विज्ञेयः
संहर्तृत्वप्रदो मनुः ॥ (61) प्रभूतः - भोगोपकरणं नित्यं निर्मर्यादं परं
पदम् । यस्य तेन समृद्धत्वात् प्रभूत इति कथ्यते ॥ (62) त्रिककुद्धाम -
त्रिपाद्विभूतिस्त्रिककुत् सैव स्थानं विशेषतः । यस्य स त्रिककुद्धामा,
यद्वा त्रियुगधर्मवान् ॥ आर्षे निरुक्तमाश्रित्य त्रिककुत् स्यात् त्रिलक्षणः ।
अस्मिन् पक्षे भिन्ननाम धाम ज्योतिस्वरूपवान् ॥ व्याख्यातॄणामभि-
प्रायो नामैकत्वेऽपि कीर्तितः । "तथैवासं त्रिककुदो वाराहं रूपमास्थितः ॥
त्रिककुत्तेन विख्यातः शरीरस्य प्रमापणात् । " (63) पवित्रम् - गुणस्य
विभवानां च रूपस्य च निरन्तरम् ॥ निरूपकस्य सर्वैश्च तन्निरूप्यं स्वरूप-
कम् । अनुप्रविश्य वसति तत् पवित्रमिति स्मृतम् ॥ (64) मङ्गलं परम् -
सर्वहेयप्रत्यनीकमनन्तानन्दलक्षणम् । वेदान्तपारगं नित्यमुच्यते मङ्गलं
परम् ॥