This page has been fully proofread once and needs a second look.

निचिरिति ह्येकनाम प्रकीर्तितम् ॥ (31) संभवः - निधिवञ्चातिगूढोऽपि
रामकृष्णादिभेदतः । समन्ताद्बहुधा जातः संभवः परिकीर्तितः ॥
(32) भावनः – जनित्वोज्जीवयति यो जनान् स्यात् भावनस्तु सः ।
( 34 ) प्रभवः - देवादिजनवैजात्यात् प्रकृष्टोत्पत्तिमत्त्वतः । अविद्यादोष-
वैधुर्यात् प्रभवः परिकीर्तितः ॥ (35) प्रभुः - ब्रह्मादीनां च सर्वेषां भोग-
मोक्षसमर्पणे । समर्थः प्रभुरित्युक्तः सर्वेष्टफलदो मनुः ॥ (36) ईश्वर:-
मनुष्याद्यवतारेऽपि ब्रह्मादींश्च प्रयोजने । नियन्ता त्वीश्वरः प्रोक्तः
प्राधान्यफलदो मनुः ॥
 
स्वयंभूश्शंभुरादित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५ ॥
 
(37) स्वयम्भूः - भवति स्वेच्छया योऽसौ स्वयंभूः परिकीर्तितः । (38)
शंभुः - सौन्दर्यादिगुणानां यो ह्याविष्कारेण शं सुखम् । पुंसां सम्यग्भावयति
स शंभुः परिकीर्त्यते । (39) आदित्यः - निवासः सविता यस्य स आदित्यः
प्रकीर्तितः ॥ (40) पुष्कराक्षः - अक्षिणी पुण्डरीके व भक्तानुग्रहकारिणी ।
यस्यासौ पुष्कराक्षः स्यादष्टवर्णस्तु पावकः ॥ (41) महास्वनः - महान्
पूज्यस्त्रयीरूपः स्वनो यस्य महास्वनः । (42) अनादिनिधनः - नास्ति
यस्यादिनिधनम् अनादिनिधनश्च सः । अनादिनिधनोपास्यो नित्ययौवन-
विग्रहः । (43) धाता - अचित्समष्टिभूतायां प्रकृतौ चित्समष्टिकम् ।
गर्भं विध्यात्मकं धत्ते यस्तु धातेति चक्षते । (44) विधाता - तद्गर्भपरिणामे
स्यादाविर्भावयिता स्वयम् । धारणाल्लीलया यस्मात् विधाताऽयं
प्रकीर्तितः । ( 45 ) धातुरुत्तमः - यो वै स्याद्धातुरुत्कृष्टः स च स्यात्
धातुरुत्तमः ॥
 
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्टः स्थविरो ध्रुवः ॥ ६ ॥
 
(46) अप्रमेय: - ब्रह्मादीनां च करणैर्नो मातुमपि शक्यते । द्रष्टुं
ह्यसावप्रमेयः वचसामप्यगोचरः ॥ (47) हृषीकेश: - इन्द्रियाणां निय-
न्तृत्वात् हृषीकेशः प्रकीर्तितः । ( 48 ) पद्मनाभः - कालात्मकं तु यत्पद्मं
 
-