This page has been fully proofread once and needs a second look.

धोबिष्णुसहस्त्रनामस्तोत्रम्
 
-
 
निचिरिति होह्येकनाम प्रकीर्तितम् ॥ (31) संभवः - निधिवञ्चातिगूढोऽपि

रामकृष्णादिभेदतः । समन्ताद्बहुधा जातः संभवः परिकीर्तितः ॥

(32) भावनः – जनित्वोज्जीवयति यो जनान् स्यात् भावनस्तु सः ।

( 34 ) प्रभवः - देवादिजनवैजात्यात् प्रकृष्टोत्पत्तिमत्त्वतः । अविद्यादोष-

वैधुर्यात् प्रभवः परिकीर्तितः ॥ (35) प्रभुः - ब्रह्मादीनां च सर्वेषां भोग-

मोक्षसमर्पणे । समर्थः प्रभुरित्युक्तः सर्वेष्टफलदो मनुः ॥ (36) ईश्वर:-

मनुष्याद्यवतारेऽपि ब्रह्मादींश्च प्रयोजने । नियन्ता त्वीश्वरः प्रोक्तः

प्राधान्यफलदो मनुः ॥
 

 
स्वयंभूश्शंभुरादित्यः पुष्कराक्षो महास्वनः ।

अनादिनिधनो धाता विधाता धातुरूरुत्तमः ॥ ५ ॥
 

 
-
 
-
 

 
(37) स्वयम्भूः - भवति स्वेच्छया योऽसौ स्वयंभूः परिकीर्तितः । (38)

शंभुः - सौन्दर्यादिगुणानां यो ह्याविष्कारेण शं सुखम् । पुंसां सम्यग्भावयति

शंभुः परिकीर्त्यते । (39) आदित्यः - निवासः सविता यस्य स आदित्यः

प्रकीर्तितः ॥ (40) पुष्कराक्षः- - अक्षिणी पुण्डरीके व भक्तानुग्रहकारिणी ।

यस्यासौ पुष्कराक्षः स्यादष्टवर्णस्तु पावकः ॥ (41) महास्वनः - महान्

पूज्य स्त्रयीरूपः स्वनो यस्य महास्वनः । (42) अनादिनिधनः - नास्ति

यस्यादिनिधनम् अनादिनिधनश्च सः । अनादिनिधनोपास्यो नित्ययौवन-

विग्रहः । (43) धाता - अचित्समष्टिभूतायां प्रकृतौ चित्समष्टिकम् ।

गर्भं विध्यात्मकं धत्ते यस्तु धातेति चक्षते । (44) विधाता - तद्गर्भपरिणामे

स्यादाविर्भावयिता स्वयम् । धारणाल्लीलया यस्मात् विधाताऽयं

प्रकीर्तितः । ( 45 ) धातुरुत्तमः - यो वै स्याद्धातुरुत्कृष्टः स च स्यात्
 
-
 

 

धातुरुत्तमः ॥
 

 
अप्रमेयो हृषीकेशः पद्मनाभोऽम्ररप्रभुः ।
 

विश्वकर्मा मनुस्त्वष्टा स्थविष्टः स्थविरो ध्रुवः ॥ ६ ॥
 

 
(46) अप्रमेय: - ब्रह्मादीनां च करणेनोंणैर्नो मातुमपि शक्यते । दुद्रष्टुं

ह्यसावप्रमेयः वचसामध्प्यगोचरः ॥ (47) हृषीकेश: - इन्द्रियाणां निय-

न्तृत्वात् हृषीकेशः प्रकीर्तितः । ( 48 ) पद्मनाभः - कालात्मकं तु यत्पद्मं
 
-
 

 
-