This page has been fully proofread once and needs a second look.

मुख्यप्राप्यस्ततश्शोषी मुक्तानां परमा गतिः । (13) अव्ययः - न बीबवीयते च
वैकुण्ठान्मुक्तोऽधस्तादनोतोऽव्ययः ॥ (14) पुरुषः-मुक्तेभ्यः स्वात्मपर्यम्न्
शमा
दानात् पुरुष ईरितः । (15) साक्षी - स्वयमान्दयन् तृप्यन् साक्षी
साक्षात्करोति सः ॥ (16) क्षेत्रशःज्ञः - क्षेत्रं तु परमव्योम मुक्तेभ्यो वेत्ति
नित्यशः । दातुं स्वानुभवं यश्च क्षेत्रज्ञः स तु कथ्यते ॥ ( 17 ) अक्षर : -
सदाऽनुभूयमानोऽपि निस्सीमगुणगौरवात् । मुक्तैः क्वचिन् क्षरतीत्यक्षरः.
परिकीर्तितः ॥
 
योगो योगविदां नेता प्रधानपुरुषेश्वरः ।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३ ॥
 
उक्तं हि मुक्तंप्राप्यत्वमथोपायत्वमुय्च्यते । ( 18 ) योगः - साक्षा-
न्मोक्षैकहेतुत्वात् योग इत्यभिधीयते ॥ (19) योगविदां नेता - उपाय-
भक्तिनिष्ठा ये ते च योगविदः सृस्मृताः । तेषां च फलपर्यन्ते नेता निर्वाह -
कश्च यः ॥ ( 20 ) प्रधानपुरुषेश्वर:- बन्धहेतोः प्रधानस्य बध्यमान-
नृणां च यः । नियामकः सर्वदा स प्रधानपुरुषेश्वरः ॥ (21) नारसिंह-
वपुः - नरवत् सिंहवद्रूपं यो बिभर्त्यभयप्रदम् । यथाकामं तु भक्तानां
नारसिंहवपुश्च सः ॥ (22) श्रीमान्– विरुद्धाकारवत्वेऽपि श्रीमान् सर्व-
मनोहर: । ( 23 ) केशवः - प्रशस्तनीलकेशत्वात् केशवः परिकीर्तितः ॥
(24) पुरुषोत्तमः - बद्धादिपुरुषेभ्यो यो ह्युत्कृष्टः पुरुषोत्तमः ।
 
सर्वश्शर्वश्शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।
संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४ ॥
 
-
 
(25) सर्व: - चराचरशरीरेषु व्याप्तिमान् सर्व ईरितः ॥ (26)
शर्व:- स्वशरीरजगद्दुःखं शर्वस्स स्यात् शृणाति यः । (27) शिवः -
शुभावहत्वात् भक्तानां शिव इत्यभिधीयते ॥ (28) स्थाणुः - संशमय्याशिवं
सर्वं विश्रण्यापि शिवं बहु । स्वयं न विश्राम्यति यः स स्थाणुः परि-
कीर्तितः : (29) भूतादिः - भूतैर्यः प्राणिभिर्नित्यं स्पृहणीतमत्वतः ।
उपादानाद्धि भूतादिरुच्यते सुन्दराकृतिः ॥ (30) निधिरव्यय:- - यः
सदापद्धनमिव निधेयत्वान्निधिः स्मृतः । सदोपभुज्यमानोऽपि कळयाऽ-
प्यमुनुपक्षयात् ॥ अव्यय: स्यान्निधेरेतद्विशेषणमुदाहृतम् । अतोऽध्ययो