This page has been fully proofread once and needs a second look.

कारुण्येन माथुयुता बहुविधान् संमारभौकसारभीरून् जनान्
चाचीत्रात्री भक्तिमतो विभाति जगतां नित्यं भयध्वंसिनौ ।नी ॥
 
॥ ३७॥ संस्तुत्येति-
हे भद्रघटोपमे बंद्गुणौघावयवं तव गुणौघानां गुणमसु-
दयानाम् अवयवम् एकदेणं मंस्तुत्य संपूज्य यत्युष्यं मया तम्
श्रासादितम् । अनियतेयत्तम् अनियता अनिर्द्वारिता इयत्ता
परिमाणं[^१] संख्या यस्य तत् । किम्भूतम् ? पुण्याईवाञ्छा श्रेयो-
ऽभिलाषः चैव फलं तस्य मधुररसास्वादो यत्र तत् । आमुक्तेः
मुक्तिमवधौलत्य भोग्यं भोक्तव्यम् ऋचयत्वात् । मुक्ति मोचपर्य्यन्तं
यथा स्यादित्यर्थः । अयं लोकः सकलमेव इदं विश्वं तेन पुण्येन[^२]
ताम् अनुपमां सुमतसुतमहीम् ग्रहांय शौघ्रतरं यायाद् व्रजतु ।
सुखावतौ उपाख्या नाम यस्याः ताम् । किम्भूताम् ? त्रार्य्याव-
लोकेश्वरचरणतलस्वस्तिक चिह्न विशेषः स एव स्वस्ति मङ्गलं चिह्नं
लाञ्छनं यत्र ताम् । स्तुतिसञ्जातेन मम पुण्येन अमी सबै एव
लोकाः सुखावत लोकधातुम् श्रासाद्य सुचिरं त्वत्परायणा भवन्तु
इत्यभिप्रायः ।
 
इति आर्य्यताराभट्टारिकायाः स्रग्धरास्तोचं समाप्तम् ॥
-----------------------------------------------------------------------------------------
[^१] Orig. परिमानं । [^२] Orig. प्रयत्नं ।