This page has been fully proofread once and needs a second look.

अमोघम् अनिष्फलम्[^१] । किं तद्दृष्टं त्वयेत्याह- तव गुणानां स्तोचं
प्रशंसा तदेव केवलं स्तोत्रमात्रं यत एवं तस्मादहम् अभ्यर्थये
इति भावः ।
 
स्तुतिं[^२] परिसमाप्य तज्जनितपुण्यं परिणामयन्नाइ
संस्तुत्य त्वद्[^३]गुणौघा[^४]वयवमनियते[^५] यत्तमाप्तं मया यत्
पुण्यं पुण्याईंवाञ्छाफलमधुररसास्वादमामुक्तिभोग्यम् ।
लोकलेनार्थ जो केश्व[^६]रचरणतल स्वस्तिकस्वस्तिचिह्ना-
महायायं प्रयायात् सुगतसुतमहौं तां सुखावत्युपाख्याम् ॥ ३७ ॥
 
इत्यार्य्यतारायाः[^७] लग्धरा[^८]स्ताचं परि[^९]समाप्तम् ॥
शुभम्[^१०] ॥
 
कृतिरियं सर्व्वज्ञमित्रपादानां काश्मौरकाणां[^११] तारा-
चरणरेणुधूसराणाम्[^१२] ॥
 
तारा मार-भयङ्करौ सुरवरैः पूजिता सर्व्वदा
लोकानां हितकारिणो जयति सा चान्ते च या रक्षति ।
-----------------------------------------------------------------------------------------
[^१] Orig. अनिःफलं । [^२] Orig. omits ं ।
[^३] A. त्वत् । [^४] A. गुणोघ ।
[^५] A. मणियते । [^६] A. लोकेश्वर ।
[^७] B. तारा भट्टारिकायः । [^८] B. श्रग्धरा ।
[^९] B. omits परि । [^१०] B. omits शुभम् ।
[^११] B. काश्मौरिकानां । [^१२] B. ताराचरणाब्जधूसराणां ।