This page has been fully proofread once and needs a second look.

औद्धत्यं परिहृत्य भगवतीं दीनगिरा प्रार्थयन्नाह--
 
कल्याणानन्दसिन्धुप्रकटशशिकले श्रीभरां देहि दृष्टिं
पुष्टिं ज्ञानोपदेशैः कुरु घनकरुणे ध्वंसय ध्वान्तमन्तम् ।
त्वत्स्तोत्राम्भः पवित्रीकृतमनसि मयि श्रेयसः स्थानमेकं
दृष्टं यस्मादमोघं जगति तव गुणस्तोत्रमात्रं[^१] प्रजानाम् ॥ ३६ ॥
 
॥ ३ ६ ॥ कल्याणेति--
 
कल्याफेणेन मङ्गलेन य आनन्दो महान्हर्षः स एव अतिमहत्वात्
मिन्धुस्तस्मात् प्रकटा प्रतिस्पुटा शशिनः कला लेखेव या मासा
अथवा कल्याणाय सम्यकुक् सम्बोधये ये आनन्दाः सहजाताः षोडश-
लक्षणा: ते एत्र मिसिन्धवो महासमुद्रास्तेभ्यः प्रकटा: प्रव्यक्तीभृभूता ये
भशिनो सुमिमुनिचन्द्रामेषां कलेव कला चन्द्रिकेत्यर्थः । एवंविधे हे
तारिणि मयि श्रीभराम्[^२] अतिस्निग्धमुखां[^३] दृष्टिम् अवलोकनं देहि
सम्पादय । किम्भूते ? तव स्तोत्रमेव अम्भो जलं तेन पविधीहत्रीकृतं
परिशीशुद्धीभूतं मनः हृदयं यस्य तस्मिन् । हे घनकरुणे घना प्रति-
विपुला करुणा यस्याः सा । पुष्टिं पोषणं ज्ञानोपदेशःशैः अद्वैततत्त्वप्रका-
शनैः कुरु विधेहि। अन्तर्ध्वान्तं मनोऽविद्यान्धकारं ध्वंसय स्फोटय ।
यस्मात् प्रजानां लोकानां जगति संभासारे श्रेयसो लौकिकलो को-
त्तरायाः सम्पदः स्थानमालय एकम् अद्वितीयं दृष्टं मयावगतम् ।
-----------------------------------------------------------------------------------------
[^१] A. स्वत्रमात्रं । [^२] Orig. शीभरां । [^३] Orig. omits ं।