This page has been fully proofread once and needs a second look.

श्रौद्धत्यं परिहृत्य भगवत दौतीं दीनगिरा प्रार्थयन्नाह--
 
कल्याणानन्दसिन्धुप्रकटशशिकले श्रीभरां देहि दृष्टिं
पुष्टिं ज्ञानोपदेशैः कुरु घनकरुणे ध्वंसय ध्वान्तमन्त
त्वत्स्तोचात्राम्भः पवित्रौरीकृतमनसि मयि श्रेयसः स्थानमेकं
दृष्टं यस्मादमोघं जगति तव गुणस्ताचतोत्रमात्रं[^१] प्रजानाम् ॥ ३६
 
॥ ३ ६ ॥ कल्याणेति–
 
कल्याफेन मङ्गलेन य आनन्दो महाधर्षः स एव अतिमहत्वात्
मिन्धुस्तस्मात् प्रकटा प्रतिस्पुटा शशिनः कला लेखेव या मा ।
अथवा कल्याणाय सम्यकुसम्बोधये ये आनन्दाः सहजाताः षोडश-
लक्षणा: ते एत्र मिन्धवो महासमुद्रास्तेभ्यः प्रकटा: प्रव्यक्तीभृता ये
भशिनो सुमिचन्द्रामेषां कलेव कला चन्द्रिकेत्यर्थः । एवंविधे हे
तारिणि मयि श्रीभराम्[^२] अतिस्निग्धमुखां[^३] दृष्टिम् अवलोकनं देहि
सम्पादय । किम्भूते ? तव स्तोमेव अम्भो जलं तेन पविधीहतं
परिशीभूतं मनः हृदयं यस्य तस्मिन् । हे घनकरणे घना प्रति
विपुला करुणा यस्याः सा । पुष्टिं पोषणं ज्ञानोपदेशः अद्वैततत्वप्रका-
शनैः कुरु विधेहि। अन्तर्ध्वान्तं मनोऽविद्यान्धकारं ध्वंसय स्फोटय ।
यस्मात् प्रजानां लोकानां जगति संभारे यसो लौकिकलो को-
त्तरायाः सम्पदः स्थानमालय एकम् अद्वितीयं दृष्टं मयावगतम् ।
-----------------------------------------------------------------------------------------
[^१] A. स्वत्रमात्रं । [^२] Orig. शीभरां । [^३] Orig. omits ं।