This page has been fully proofread once and needs a second look.

यन्मे विज्ञप्स्यमानं प्रथमतरमदस्त्वं विशेषेण वेत्री
तद्[^१]व्याहारातिरेकश्रमविधिरबुधस्वान्तसन्तोपहेतुः ।
किन्तु स्निग्धस्य बन्धोर्विषमिव[^२] पुरतो दुःखमुद्गीर्य्य वाचा
ज्ञातार्थस्यापि दुःखी हृदयलघुतया स्वस्थतां विन्दतीव ॥ ३५ ॥
 
॥ ३५ ॥ यन्म इत्यादि--
 
हे सर्व्वदर्शिनि यन्मे विज्ञप्स्यमानम् अभिधास्यमानं प्रथम-
तरमदः मद्विज्ञापनात् प्रागेव इदं विशेषेण अधिकतर हीनत्वं वेत्री
भवती तज्ज्ञा विदितवृत्तान्ता तस्य व्याहारण अभिधानेन अति-
रेकोऽधिकतरो यः श्रमविधिः आयासकरणं सोऽबुधस्य अज्ञानस्य
यत् स्वान्तं मनः तस्य सन्तोषाय तुष्टये हेतुः कारणं यः स तथा ।
यद्येवं जानासि कथम् उन्मत्त इव प्रलपसीत्याशङ्काम् अर्थान्तर-
न्यासेन अपनयन् आह । किन्तु यद्यप्येवं तथापि स्निग्धस्य बन्धोः
अतिप्रेमशालिनो मित्रम्य ज्ञातार्थस्यापि विदितकथस्यैव पुरतो-
ऽग्रतो हृदयलघुतया अत्यल्पचित्ततया वाचा दुःखम् उद्गीर्य्य
विषमिव उद्वम्य स दुःखी स्वस्थतां विन्दतीव कल्पताम् आसा-
दयत्येव । विस्निग्धन्धोरपि प्रतितरामकारणपरमवत्सल स्वभावा
त्वमतः त्वदग्रतो वान्तदुःखो भवामौमीत्यभिप्रायः ॥ ३५ ॥
-----------------------------------------------------------------------------------------
[^१] A. त्वत् । [^२] A. बन्धोविषमिव ।
[^३] Orig. adds विज्ञप्स्यमानमिति पाठे ह्रस्वत्वम् ।
[^४] Orig. illegible.