This page has been fully proofread once and needs a second look.

यन्मे विज्ञप्स्यमानं प्रथमतरमदत्त्वं विशेषेण वेचौ
तद्'व्या हारातिरेक श्रमविधिरबुधस्वान्तसन्तोपहेतुः ।
किन्तु स्निग्धस्य बन्धेोर्विषमिव' पुरतो दुःखमुद्रौर्य्य वाचा
ज्ञातार्थस्यापि दुःखौ हृदयलघुतया स्वस्थतां विन्दतौव ॥
 
॥ ३५ ॥ यन्त्र इत्यादि-
 
हे सर्व्वदर्शिनियन्मे विज्ञस्यमानम् अभिधास्यमानं प्रथम-
तरमदः मद्विज्ञापनात् प्रागेव इदं विशेषेण अधिकतर दोनलं वेची
भवतो तज्ज्ञा विदितवृत्तान्ता तस्य व्याहारण अभिधानेन अति-
रेकोऽधिकतरो यः श्रमविधिः आयामकरणं सोऽषुधस्य अज्ञानस्य
यत् स्वान्तं मनः तस्य सन्तोषाय तुष्टये हेतुः कारणं यः स तथा ।
यद्येवं जानासि कथम् उन्मत्त इव प्रलप्सीत्याशङ्काम् अर्थान्तर-
न्यासेन अपनयन् आह । किन्तु यद्यप्येवं तथापि किग्घस्य बन्धोः
अतिप्रेमशालिनो मित्रम्य ज्ञातार्थम्यापि विदितकथस्यैव पुरतो-
ऽग्रतो हृदयलघुतथा अल्पचित्ततथा वाचा दुःखम् उद्गौर्य
विषमिव उदम्य म दुःखौ स्वस्थतां विन्दतीव कल्यताम् आसा-
दयदेव । विग्धवन्धोरपि प्रतितरामकारणपरमवत्सल स्वभावा
त्वमतः त्वदग्रतो वान्तदुःखो भवामौत्यभिप्रायः ।
-----------------------------------------------------------------------------------------
[^१] A. त्वत् । [^२] A. बन्धोविषमिव ।
[^३] Orig. adds विज्ञप्स्यमानमिति पाठे ह्रस्वत्वम् ।
[^४] Orig. illegible.