This page has been fully proofread once and needs a second look.

॥ ३४ ॥ सार्व्वज्ञेति-
हे अमेयानुपमरत्नाकरे त्वदीयां भवत्सम्बन्धिनीं गुण्यन्ते अभ्य-
स्यन्ते श्रेयोऽर्थिभिरिति गुणा अणिमादयो दानादयश्च तेषां गण-
गणनां निवहस्य परिमितिं[^१] साक्षात् प्रत्यक्षतः परं वेत्ति संजानाति
सर्व्ववित् सर्व्वज्ञः तत्सुतो वा तस्य सुत आर्य्यावलोकितेश्वरवागी-
श्वरप्रभृतिः । किम्भूतः ? सर्व्वज्ञस्य इदं ज्ञानं सार्व्वज्ञज्ञानं तदेव
दीपोऽशेषक्लेशे ज्ञेयावरणार्थतमोविध्वंसकत्वात् तेन प्रकटितानि
प्रव्यक्तीकृतानि सकलानाम् अपरिमेयानां ज्ञेयानां ज्ञातव्यवस्तूनां
तत्त्वानि स्वरूपाणि तेषाम् एकः केवलः साक्षी द्रष्टा प्रमाणं प्रमाण-
पुरुषो यः स तथा । इत्थं हरिहरहिरण्यगर्भश्रावकप्रत्येकबुद्ध-
दशभूमीश्वरान्यतमबोधिसत्त्वानामगम्ये तव गुणमणिगणकणिकांश-
लेशेऽपि, यत्तु व्यादाय वक्त्रं यत् पुनरुच्चैर्विकाश्य आस्यं मादृशो
मद्विधो रारटीत्युच्चैर्विरौति किं [^२]तद्बलिभुजस्येव रटितम् । बलि-
भुज इत्ये[^३]वं रूपम् । चेतसो व्यापद्विपत्तिरेव सा हास्याय उपप्लवाय
हेतुः कारणम् । कीदृशस्य तीव्रदुःखमेव ज्वरः सन्तापस्तेन जनिता
रुक् पीड़ा यस्य तस्य । एतद्दुःखितबाधितस्वभावोऽप्यहम् सरावं
यत्प्रलपामि तदतिवेदनाविह्वलतयेति भावः ॥ ३४ ॥
 
दशदिग्लोकधातु निवासिसत्त्वसार्थानां चित्तचरितं प्रतिक्षणं
करकलितकुवलयदलवदखिलमवलोकयन्त्या षभिज्ञतया कथं त्वं

मम दुःखिनोऽभिप्रायं नाकलयसि इत्याशङ्कां परिहरक्षान्नाह--
-----------------------------------------------------------------------------------------
[^१] Orig. निरहस्येतां । [^२] Orig. त । [^३] Orig. इत्यवा ।