This page has been fully proofread once and needs a second look.

॥ ३ ४ ॥ सार्व्वजेति-
हे अमेयानुपमरत्नाकरे त्वदीयां भवत्सम्बन्धिनौं गुण्यन्ते अभ्य-
स्यन्ते श्रेयोऽर्थिभिरिति गुणा अणिमादयो दानादयश्च तेषां गण-
गणनां निवहस्य परिमितिं[^१] साक्षात् प्रत्यक्षतः परं वेत्ति संजानाति
सर्व्ववित् सर्व्वज्ञः तत्सुतो वा तस्य सुत आर्य्यावलोकितेश्वरवागौ-
श्वरप्रस्भृतिः । किम्भूतः ? मर्व्वज्ञस्य ददं ज्ञानं सार्व्वज्ञज्ञानं तदेव
दीपोऽशेषक्लेशे ज्ञेयावरणार्थत मोविध्वंमकत्वात् तेन प्रकटितानि
प्रत्यक्तौ कृतानि सकलानाम् अपरिमेयानां ज्ञेयानां ज्ञातव्यवस्तूनां
तत्त्वानि स्वरूपाणि तेषाम् एकः केवलः साचौ द्रष्टा प्रमाणं प्रमाण-
पुरुषो यः स तथा । इत्थं हरिहरहिर फगर्भश्रावक प्रत्येकबुद्ध-
दशभूमीश्वरान्यतमबोधिसत्त्वानामगम्ये तव गुणमणिगणकणिकांश-
लेशेऽपि, यत्तु व्यादाय वक्त्रं यत् पुनरुच्चैर्विकाश्य त्रास्यं मादृशो
मद्दिधो रारटौत्युच्चैर्विरौति किं [^२]तद्बलिभुजस्येव रटितम् । बलि-
भुज इत्ये[^३]वं रूपम् । चेतसो व्यापद्विपत्तिरेव सा हाम्याय उपलवाय
हेतुः कारणम् । कौदृशस्य तौब्रदुःखमेव ज्वरः सन्तापन जनिता
रुक् पौड़ा यस्य तस्य । एतद्दुःखितबाधितस्वभावोऽप्यहम् सरावं
यत्प्रलपामि तदतिवेदना विज्ञलतयेति भावः ।
 
दशदिग्लोकधातु निवासिसत्त्वसार्थानां चित्तचरितं प्रतिक्षणं
करकलितकुवलयदलवदखिलमवलोकयन्या षड़भिज्ञतया कथं त्वं
 
मम दुःखिनोऽभिप्रायं नाकलयसि इत्याशङ्कां परिहरक्षाह--
-----------------------------------------------------------------------------------------
[^१] Orig. निरहस्येतां । [^२] Orig. त । [^३] Orig. इत्यवा ।