This page has been fully proofread once and needs a second look.

खग्धरास्तोच टौका ।
 
४५
 
॥ ३ ४ ॥ सार्व्वजेति-

हे अमेयानुपमरत्नाकरे त्वदीयां भवत्सम्बन्धिनौं गुण्यन्ते अभ्य-

स्यन्ते श्रेयोऽर्थिभिरिति गुणा अणिमादयो दानादयश्च तेषां गण-

गणनां निवहस्य परिमितिं साचात् प्रत्यक्षतः परं वेत्ति संजानाति

सर्व्ववित् सर्व्वज्ञः तत्सुतो वा तस्य सुत आर्य्यावलोकितेश्वरवागौ-

श्वरप्रस्भृतिः । किम्भूतः ? मर्व्वज्ञस्य ददं ज्ञानं सार्व्वज्ञज्ञानं तदेव

दीपोऽशेषक्लेशे ज्ञेयावरणार्थत मोविध्वंमकत्वात् तेन प्रकटितानि

प्रत्यक्तौ कृतानि सकलानाम् अपरिमेयानां ज्ञेयानां ज्ञातव्यवस्तूनां

तत्त्वानि स्वरूपाणि तेषाम् एकः केवलः साचौ द्रष्टा प्रमाणं प्रमाण-

पुरुषो यः स तथा । इत्थं हरिहरहिर फगर्भश्रावक प्रत्येकबुद्ध-

दशभूमीश्वरान्यतमबोधिसत्त्वानामगम्ये तव गुणमणिगणकणिकांश-

लेशेऽपि, यत्तु व्यादाय वक्त्रं यत् पुनरुच्चैर्विकाश्य त्रास्यं मादृशो

मद्दिधो रारटौत्युच्चैर्विरौति किं तइलिभुजस्येव रटितम् । बलि-

भुज इत्येवं रूपम् । चेतसो व्यापद्विपत्तिरेव सा हाम्याय उपलवाय

हेतुः कारणम् । कौदृशस्य तौब्रदुःखमेव ज्वरः सन्तापन जनिता

रुक् पौड़ा यस्य तस्य । एतद्दुःखितबाधितस्वभावोऽप्यहम् सरावं

यत्प्रलपामि तदतिवेदना विज्ञलतयेति भावः ।
 

 
दशदिग्लोकधातु निवासिसत्त्वसार्थानां चित्तचरितं प्रतिक्षणं

करकलितकुवलयदलवदखिलमवलोकयन्या षड़भिज्ञतया कथं त्वं
 

 
मम दुःखिनोऽभिप्रायं नाकलयसि इत्याशङ्कां परिहरक्षाह
 

 
१ Orig. निरहस्येतां ।
 

 
२ Orig. व । ३ Orig. इत्यवा ।