This page has been fully proofread once and needs a second look.

मदो दर्पस्तेन या महाकेलयोऽत्युद्भटविलासास्तेषां कोलाहलेन
अतिकलकलेन उग्रम् अतिभोभीषणं यत् तत् । तव एवंविधं रूपं
विभाविनो योगिनोऽचिरेणैव मिष्सिध्यन्तीति भावः ॥ ३१ ॥

पुनरपि मूर्त्तिभेदमाह--
 
केचित् त्वेकैकरोमोद्गमगतगगनाभोगभूभूतलस्थ-
स्वस्थ[^१]ब्रह्मेन्द्ररुद्रप्रभृतिनरमरुत्सिङ्घद्ध[^२] गन्धर्व्वनागम् ।
दिक्चक्राक्रामि[^३]धामस्थित सुगतशतानन्तनिर्म्माणचिचं
चि
त्रं चै
चित्रं त्रै
लोक्यवन्दंद्यं स्थिरचर[^४]रचिताशेषभावस्वभावम् ॥ ३२ ॥
 
॥ ३२ ॥ केचिदिति --
 
केचिद्भाबुवुकास्त्वद्रूपं ध्यायन्ति । किम्भूतम् ? भैत्रैलोक्यानां काम-
रूपारूप्यधातूनां वन्द्यं नमस्यम् । स्थिरा: पृथिव्यादयो भाजन-
रूपा लोकाश्चरा देवादयः सत्त्वलोकाञ्श्च एतत्प्रभृतीनां रचितो
निष्पादितोऽशेषाणाम् अपर्य्यन्तानां भावः स्वभावो येन तत् ।
एतेन उत्पादस्थितिप्रलयकारिणी त्वं संवृत्तेति भावः । अथवा स्थिर-
चररचिता अशेषा ये भावास्त एव स्वभावः सर्व्वशून्यता प्रभास्वरं
त्वद्रूपं परमार्थत इति वा व्याख्या । एतेन धर्म्मकायोऽभिषिहितः ।
चित्रम् अनुपमं पृथग्[^५] जनश्रावकाद्यवेद्यं महाबोधिसत्त्वानामेव परं
गम्यमनेन सम्भोगकायः प्रतिपादितः । विशेषणद्वयेन निर्म्माण-
-----------------------------------------------------------------------------------------
[^१] स्वस्थः would harmonise with the Tibetan version.
[^२] B. विद्ध । [^३] A. क्राम । [^४] Orig. तर । [^५] Orig. पृथक ।