This page has been fully proofread once and needs a second look.

बौद्धस्तोत्रसंग्रहः ।
 
मदो दर्पस्तेन या महाकेलयोऽत्युइटविलासास्तेषां कोलाहलेन

अतिकलकलेन उग्रम् अतिभोषणं यत् तत् । तव एवंविधं रूपं

विभाविनो योगिनोऽचिरेणैव मिष्यन्तीति भावः ।

पुनरपि मूर्त्तिभेदमाह
 

 
केचित् त्वेकैकरोमोद्गमगतगगनाभोगभूभूतलस्थ-

स्वस्थ'[^१]ब्रह्मेन्द्ररुद्रप्रभृतिनरमरुत्सिङ्घ'[^२] गन्धर्व्वनागम् ।

दिक्चक्राक्रामि[^३]धामस्थित सुगतशतानन्तनिर्माणचिचं

चित्रं चैलोक्यवन्दं स्थिरचर[^४]रचिताशेषभावस्वभावम् ॥
 
४२
 
३२ ॥
 
॥ ३२ ॥
केचिदिति -
 

 
केचिद्भाबुकास्त्वद्रूपं ध्यायन्ति । किम्भूतम् ? भैलोक्यानां काम-

रूपारूप्यधातूनां वन्द्यं नमस्यम् । स्थिरा: पृथिव्यादयो भाजन-

रूपा लोकाश्चरा देवादयः सत्त्वलोकाञ्च एतत्प्रभृतीनां रचितो

निष्पादितोऽशेषाणाम् अपर्यन्तानां भावः स्वभावो येन तत् ।

एतेन उत्पादस्थितिप्रलयकारिणी त्वं संवृत्तेति भावः । अथवा स्थिर-

चररचिता अशेषा ये भावास्त एव खभावः सर्व्वशून्यता प्रभाखरं

लद्रूपं परमार्थत इति वा व्याख्या । एतेन धर्मकायोऽभिषितः ।

चित्रम् अनुपमं पृथग्[^५] जनश्रावकाद्यवेद्यं महाबोधिसत्त्वानामेव परं

गम्यमनेन सम्भोगकायः प्रतिपादितः । विशेषणदयेन निर्माण-

-----------------------------------------------------------------------------------------
[^
] स्वस्थः would harmonise with the Tibetan version.

[^
] B. विद्ध । [^] A. क्राम । 8 [^४] Orig. तर । [^.] Orig. पृथक ।
 
G