This page has been fully proofread once and needs a second look.

प्रौढालीढैकपादक्रमभरविनमद्ब्रह्मरुद्रेन्द्रविष्णु
त्वद्रूपं भाव्यमानं भवति भवभयोच्छित्तये जन्मभाजाम् ॥ ३० ॥
 
॥. ३ ० ॥ चूड़ारत्नेति--
 
हे मायाजालाभिसम्बोधिलाभिनि त्वद्रूपं भाव्यमानं तव मूर्त्ति-
र्वि[^१]चिन्त्यमाना जन्मिनां लोकानां भवभयानि संसारसन्त्रासास्तेषाम्
उच्छित्तये समुन्मूलनाय[^२] भवति सम्पद्यते । किम्भूतम् ? चूड़ारत्नानां
शिखास्थितमाणिक्यानाम् अवतंसाः शेखरास्त एव आासनानि
विष्टराः तेषु गता अवस्थिता ये सुगता अक्षोभ्यादयस्तेषां
व्योम्नि नभस्तले या लक्ष्मी: शोभा सैव वितानं यत्र तत् । अथवा
त एव व्योम्न आकाशस्य लक्ष्म्यः श्रिय इव वितानानि यत्र
तदिति। प्रोद्यन्त उद्गच्छन्तो ये बालार्का उदयगिरिशिरः स्थिता
दिनमणयस्तेषां कोट्यो[^३] लक्षशतानि तेषां पटुतरा: अत्युष्ण[^१]तराः
किरणास्तेजांसि तैरापूर्य्यमाणम् आ समन्ताद् व्याप्यमानं त्रिलोकं
भुवनत्रयं येन तत् । प्रौढ: साटोपो य आलीढेन वामसङ्कोचनेनैक-
पादक्रम: पदविन्यासः पदशक्तिर्वा तस्य भरेण आक्रमणेन निष्पी-
डनेन विनमन्त आनम्रीभवन्तो ब्रह्मरुद्रेन्द्रविष्णवो यत्र तत् ।
अनेन निर्माणकाय: कथित इति भावः ॥ ३० ॥
 
पुनर्मूर्त्तिप्रकारमाह--
-----------------------------------------------------------------------------------------
[^१] Orig. omits । [^२] Orig. सन्मूलनाय ।
[^३] Origo कोयौ । [^४] Orig. omits in अत्युष्प ।