This page has been fully proofread once and needs a second look.

॥ २९ ॥ गीर्वाणेत्यादि--
 
हे अपरिमितोत्तमपदवरदे त्वद्दृष्टिपातैः पूतः तव दृष्टेः पाता
अव[^१]लोकनानि तैः पवित्रीकृतः सुराणां देवानां महीं वसुन्धराम्
अवति परिपालयति । कीदृश: ? हीरैः वज्रमणिभिः भिन्नः
प्रस्फुटीकृतः प्रकोष्ठः कफोणिस्कन्धयोरन्तरालं यस्य सः । किम्भूतः ?
वन्दिता शिरसि कृता आज्ञा शासनं यस्य सः । कै: ? गीर्वाणानां
ग्रामणीभिः सुराणां प्रधानैः विनयभरेण भक्तिभारेण नमन्त्यो
नम्रीभवन्त्यो मौलयः किरीटा येषां तैः । क्व ? स्वर्गस्य त्रिदशा-
लयस्य उत्सङ्गे अभ्यन्तरे। पुनः किम्भूतः ? अधिरूढोऽतिवाह्य स्थितः ।
क्व ? सुरकरिणि ऐरावतस्कन्धे । रुणद्भूषणैः रणरणायमानाल-
ङ्कारैर्भूषितं प्रसाधनीकृतम् अङ्गं यस्य तस्मिन् । शच्या इन्द्राण्या
दोषोर्भुजयोर्दामदोला पाशलता तावेव वा दामदोला तया अवि-
रलं निरन्तरं वलयितं परिवेष्टितमालिङ्गिमित्यर्थः यत् तेनो-
द्दामरोमाञ्चाः प्रव्यक्तीभूतोत्फुल्लतनुरुहा मूर्त्तौ यस्य सः । देवाधि-
पत्यमपि त्वदवलोकनमात्रलभ्यं किमन्यत्पदमिति भावः ॥ २९ ॥
 
लौकिकसम्पद्दानशक्तिमभिधाय इदानीं लोकोत्तरानुत्तरसुख-
दायिनं मूर्त्तिभेदं श्लोकचतुष्टयेन उद्भावयन्नाह--
 
चूड़ारत्नावतंसा[^१]सनगतसुगतव्योमलक्ष्मीवितानं
प्रोद्यद्दाबालार्ककोटीपटुतरकिरणापूर्य्यमाण[^३] त्रिलोकम् ।
-----------------------------------------------------------------------------------------
[^१] Orig. repeats त्वदृष्टेरव । [^२] A, B. वतंशा । [^३] A. पूर्य्यमान ।