This page has been fully proofread once and needs a second look.

मुरजौ यासां ताः उद्धततरयोरत्यन्तचपलयोश्चरणयोरिति वा
व्याख्या । त्वत्पदाधिष्ठितानां सकलमेव अवश्यं वश्यमिति भावः ॥ २६ ॥
 
वनविहारं पुनराह--
 
रत्नच्छन्नान्तवापीकनककमलिनीवज्रकिञ्जल्कमाला-
[^१]मुन्मज्जत्पारिजातद्रुममधुपबधूद्धूतधूलीवितानाम्[^२] ।
वीणावेणुप्रवीणामरपुररमणीदत्तमाधुर्य्यतूर्य्यां[^३]
कृत्वा युष्मत्सपर्य्यामनुभवति चिरं नन्दनोद्यानयात्राम् ॥ २७ ॥
 
॥ २७ ॥ रत्नेति--
 
हे निर्मलीकृतस्वान्तसन्तते युष्मत्सपर्य्यां कृत्वा तव पदस्य पूजां
विधाय अनुभवति चिरम् अनल्पकल्पं नन्दनाभिधानस्य उद्यानस्य
यात्राम् उत्सवम् उपभुङ्क्ते । कीदृशीम् ? रत्नैर्वैदूर्य्यादिभिश्छन्नो
व्याप्तोऽन्तः परिसरो यासां तासु वापीषु क्रीडापुष्करिणीषु
या:[^४] कनककमलिन्यः काञ्चननलिन्यस्तासां वज्राणां हीराणां ये
किञ्जल्काः केशरास्तेषां माला यत्र ताम् । उन्मज्जन्त ईषद्विक-
सन्तो मञ्जरिता ये पारिजातद्रुमा मन्दारतरवस्तेषु मधुपवधूभिः
भृङ्गाङ्गनाभिः[^५] धूताः समुत्तोलिता ऊर्द्ध्वं नीता या धूल्यः परागास्ता
एव वितानानि चन्द्रातपा यस्यां ताम्। मधुरमधूद्भूतेतिपाठे
उन्मज्जत्पारिजातद्रुमाणां मधुरेण मनोहरेण मधुना वसन्तेन
-----------------------------------------------------------------------------------------
[^१] A. मुन्मत्जत् । [^२] A. मधुरमधूद्धूतधूलीवितानाम् ।
[^३] B. तूर्य्या [^४] Orig. omits : । [^५] Orig. omits : ।