This page has been fully proofread once and needs a second look.

लग्धरास्तोत्र टीका ।
 
हाराकान्तस्तनान्ताः श्रवणकुवलयस्पईमानायताक्ष्यो

मन्दारोदारवेणौतरुणपरिमलामोदमाद्यद्[^१] द्विरेफाः ।
काञ्चौनादानुबन्धोडत[^२]तरचरणोदारमञ्जौरतूर्य्या-
त्वन्नाथान् प्रार्थयन्ते स्मरमदमुदिताः सादरा देवकन्याः[^३] ॥ २६ ॥
 
॥ २६ ॥ हारेत्यादि-
अनवद्याङ्गि लन्नाथान् प्रार्थयन्ते त्वमेव नाथा स्वामिनी
येषां तान्, बादराः ससम्भ्रमाः सत्यः अभ्यर्थयन्ते, देवाङ्गनाभिरुपेत्य
अभ्यर्थन्ते[^४] उत्पत्य परिभुज्यन्ते[^५] इत्यर्थः । का: ? देवकन्याः स्वर्गा-
ङ्गनाः, स्मरमदेन मन्मथदर्पेण मुदिता अतिहर्षेण उच्छृङ्खलीकृता
व्यास्ताः । हारेण आक्रान्तः संच्छनः स्तनयोरन्तः अन्तरालं यासां
ताः । श्रवणयोर्यत् कुवलयम् द्वन्दीवरं तत्स्यर्द्धमाने अभिमानजन्य-
माने आयते विशाले अचिणौ चक्षुषी यासां ताः । किम्भूताः ?
मन्दारेण पारिजातेन उदारा महतो वेणी आयतकेशविन्यासस्तस्याः
तरुणः अतिपुष्टः परिमकोऽतिसुर भिगन्धस्तस्य आमोदेन[^६] त्राघ्राणेन
माद्यन्तो हृय्यन्तो द्विरेफा भृङ्गा यासां ताः । पुनः किताः ?
काञ्चौनादस्य रसनाध्वनेः अनुबन्धः अनुगमो यस्तेन उद्धततरौ
अधौरौ चरणयोरुदारौ विपुलौ मन्त्रीरौ नूपुरौ तावेव तूर्य्यौ
-----------------------------------------------------------------------------------------
[^१] A. मोद्यमाद्य । [^२] A. बद्धाद्धत ।
[^३] A. omits: । [^४] Orig. अभ्यर्थते ।
[^५] Orig. परिभजते । [^६]. Orig. आमदेन ।