This page has been fully proofread once and needs a second look.

सिद्धिर्येन स पुमान् विद्याधराणाम् इन्द्रः अधिपतिः सन् याति ।
मलयस्य चन्दनाद्रेर्मंधौ वसन्तसमये यद् वनं क्रौडोद्यानं ततो व्रजति
सफलीकरोतीत्यर्थः । स्वच्छन्दम् अप्रतिहतप्रभावं यथा स्यात् ।
कीदृशः ? खड्गांशुभिः कृपाणमरीचिभिः श्यामः स्फुरदीषदभिनीलः
पीनो[^१] मांसल उन्नतः प्रलम्बो यो भुजः स एव परिघः परिघ
इव वा बाहुदण्डस्तत्र प्रोल्लसत् प्रस्फूर्जत्[^२] पारिहार्य्यं[^३] यस्य सः ।
किम्भूतः ? चन्दनाम्भोभिः सुरभिः सुगन्धिर्या मणेर्माणिक्यस्य[^४] शिला
तत्र दत्तः सङ्केतः कान्ताभिर्यस्य सः । तत्र गन्तव्यं त्वयेत्यादिवचनम्
अनुक्त्वैव यचक्षुर्वक्त्रकरादिसंज्ञया तदर्थावबोधः संज्ञानं स सङ्केत
इत्युच्यते । अभिनवं नवीनम् अपूर्व्वं रचितम् उत्पादितं यद्
आतिथ्यम् आतिथेयं अतिथेरर्हत्वात् तेन तथ्येन अकपटेन उप-
चरणमुपचार: परिचर्चा यस्य स तथा । अथवा अभिनवरचितम्[^५]
आतिथ्यस्य अतिथिसत्कारस्य तथ्यः यथार्थ उपचारो यस्य स इति ।
कुतः ? कान्तस्य स्वामिन आ समन्ततो या क्रीड़ा केलिस्तस्य अनु-
रागः अभिषङ्गो यस्तस्मात् । कान्तानां कान्ताभि[^६]र्यः क्रीडायामनु-
रागस्तस्मादिति ग्राह्यम् । दिव्यसम्पत्तेरपि नातिदूरता त्वच्चरण-
पङ्गजपरागधूसरीकृतोत्तमाङ्गानामिति भावः ॥ २५

धनविहारमभिधाय मर्व्वजनसौभाग्य प्रकाशयन्नाह--
-----------------------------------------------------------------------------------------
[^१] Orig. पीतो। [^२] Orig. omits त् ।
[^३] Orig. परिहार्य्यं । [^४] Orig. माणिकस्य ।
[^५] Orig. omits म् । [^६] Orig. adds र्ता ।