This page has been fully proofread once and needs a second look.

षट् दन्ता विषाणा विद्यन्ते यस्य सः । वराश्वः उत्तमतुरङ्गः । शिखिनां
मयूराणां ये गलरुचकाः कण्ठचन्द्रकास्तद्वत् श्यामानि रोमाणि
यस्य सः स्फुरदिन्द्रनीलनिभ इत्यर्थः । शिखिगलरुचिरेति पाठे
शिखिकण्ठवद् रुचिराणि मनोहराणीति योज्यम्, शिखिगल-
रुचिरिव श्यामानीति वा । मणिः भास्वन्तो देदीप्यमानाः भास्वतो
रवेरिव मयूखा कान्तयो यस्य स तथा । अमला विषाद्यपहरणा
गुणा यस्य सः । कोषभृत् भाण्डागाराध्यक्षः पूर्णकोषोऽक्षया निधयो
यस्य सः । सेनानीः सेनायाः. समूहः सैन्यं वीराणां सैन्यं यस्य सः ।
एतदुक्तं स्यात् अपरिमितजन्मोपचितोत्तमसुचरितशतसाध्यमपि
चतुर्द्वीपाधिपत्यं वदाराधनान्तरांशेन उपजायते नृणामिति भावः ॥ २४ ॥
 
अष्टमहासिद्धिदानसामर्थ्यमाह--
 
स्वच्छन्दं चन्दनाम्भः[^१] सुरभिमणिशिलादत्तसङ्केतकान्तः
कान्ताक्रीड़ानुरागादभिनवरचितातिथ्यतथ्योपचारः।
त्वद्विद्यालब्धसिद्धिर्मलयमधुवनं याति विद्याधरेन्द्रः
खड्गांशु[^२]श्यामपीनोन्नतभुजपरिघ[^३]प्रोल्लसत्पारिहार्य्यः[^४] ॥ २५ ॥
 
॥ २५ ॥ स्वच्छन्दमिति--
 
हे सुगतमातः त्वद्विद्या तव विद्या धारणीमन्त्रादिस्तया लब्धा
-----------------------------------------------------------------------------------------
[^१] A. स्वच्छन्दञ्श्चन्दनांभः । [^२] A. खंगांशु ।
[^३] A. puts : after परिघ । [^४] A. omits: after पारिहार्य्य ।