This page has been fully proofread once and needs a second look.

षट् दन्ता विषाणा विद्यन्ते यस्य सः । वराश्वः उत्तमतुरङ्गः । शिखिनां
मयूराणां ये गलरुचकाः कण्ठचन्द्रकास्तद्वत् ग्श्यामानि रोमाणि
यस्य सः स्फुरदिन्द्रनौनीलनिभ इत्यर्थः । शिखिगलरुचिरेति पाठे
शिखिकण्ठवद् रुचिराणि मनोहराणोणीति योज्यम्, शिखिगल-
रुचिरिव श्यामानौनीति वा । मणिः भास्वन्तो देदीप्यमानाः भास्वतो
रवेरिव मयूखा कान्तयो यस्य स तथा । श्रमला विषाद्यपहरणा
गुणा यस्य सः । कोषम्भृत् भाण्डागाराध्यक्षः पूर्णकोषोऽक्षया निधयो
यस्य सः । सेनानीः सेनायाः. समूहः सैन्यं वीराणां सैन्यं यस्य सः ।
एतदुक्तं स्यात् अपरिभिमितजन्मोपचितोत्तम सुचरितशत मासाध्यमपि
चतुर्द्वीपाधिपत्यं वदाराधनान्तरांशेन उपजायते नृणामिति भावः
॥ २४ ॥
 
ष्टमहासिद्धिदानसामर्थ्यमाह--
 
स्वच्छन्दं चन्दनाम्भः'[^१] सुरभिमणिशिलादत्तसङ्केतकान्तः
कान्ताक्रौरीड़ानुरागादभिनवरचितातिथ्यतथ्योपचारः।
त्वद्दिविद्यालब्धसिद्धिर्मलयमधुवनं याति विद्याधरेन्द्रः
खड्गांशु [^२]श्यामपौपीनोन्नतभुजपरिघ'[^३]प्रोल्लसत्पारिहार्थःय्यः[^४] ॥ २५ ॥
 
॥ २५ ॥ स्वच्छन्द मिति--

हे सुगतमातः त्वद्विद्या तव विद्या धारणौणीमन्त्रादिस्तया लब्धा
-----------------------------------------------------------------------------------------
[^१] A. खच्छन्दञ्चन्दनांभः । [^२] A. खंगांशु ।
[^३] A. puts : after परिघ । [^४] A. omits: after पारिहार्य्य ।