This page has not been fully proofread.

खग्धरातोष टीका ।
 
षट् दन्ता विषाणा विद्यन्ते यस्य सः । वराश्वः उत्तमतुरङ्गः । शिखिनां
मयूराणां ये गलरुचकाः कण्ठचन्द्रकास्तद्वत् ग्यामानि रोमाणि
यस्य सः स्फुरदिन्द्रनौलनिभ इत्यर्थः । शिखिगलरुचिरेति पाठे
शिखिकण्ठवद् रुचिराणि मनोहराणोति योज्यम्, शिखिगल-
कचिरिव श्यामानौति वा । मणिः भावन्तो देदीप्यमानाः भावतो
रवेरिव मयूखा कान्तयो यस्य स तथा । श्रमला विषाद्यपहरणा
गुणा यस्य सः । कोषम्भृत् भाण्डागाराध्यक्षः पूर्णकोषोऽचया निधयो
यस्य सः । सेनानीः सेनायाः. समूहः सैन्यं वीराणां सैन्यं यस्य सः ।
एतदुक्तं स्यात् अपरिभितजन्मोपचितोत्तम सुचरितशत माध्यमपि
चतुपाधिपत्यं वदाराधनान्तरांशेन उपजायते नृणामिति भावः ।
ऋष्टमहासिद्धिदानसामर्थ्यमाह
 
स्वच्छन्दं चन्दनाम्भः'सुरभिमणिशिलादत्तसङ्केतकान्तः
कान्ताक्रौड़ानुरागादभिनवरचितातिथ्यतथ्योपचारः।
त्वद्दिद्यालब्धसिद्धिर्मलयमधुवनं याति विद्याधरेन्द्रः
खड्गांशु श्यामपौनोन्नतभुजपरिघ'प्रोल्लसत्पारिहार्थः ॥
 
२५ ॥
 
॥ २५ ॥ स्वच्छन्द मिति-
हे सुगतमातः लविद्या तव विद्या धारणौमन्त्रादिस्तया लब्धा
 
१ A. खच्छन्दञ्चन्दनांभः ।
 
२ A. खंगांठ ।
 
३ A. puts : after परिघ । 8 A. omits: after पारिहार्थं ।
 
3