This page has not been fully proofread.

३०
 
बौद्धस्तोत्र संग्रह ।
 
॥ २९ ॥ सेवाकर्मेति-
हे कृपणजनजननि त्वामर्थमभ्यर्थं धननिमित्तं त्वामाराध्य
निर्द्धनाः सम्पदिकलाः भूयः पुनः प्राप्नुवन्ति । कान् ? भूमेः पृथिव्याः
सकाशाद् निर्वान्ता उद्गौखामकराणां सुवर्णानां निकरा: ममूहा
यैर्निधिभिस्तान् श्रासादयन्ति । कीदृशीम् ? दैवं नियतवेदनौयं
कर्म शुभम् अशुभं च तदप्यतिक्रामति उल्लङ्घन्यति या ताम् ।
पूर्वं कौदृशः ? वित्तं धनम् अप्राप्नुवन्तोऽलभमानाः । किम्भूतम् ?
प्राग्जन्मनि' उपात्तम् उपार्जितं चत् पुष्पं कुमलं तस्मादुपचितम्
अतिशयीभूतम् इद्द जन्मनि यच्चभं तनिष्यन्दीभूतं स्वचरितं तस्य
फलं प्रसवो यत्र तत् तथा । किंविशिष्टा: ? सेवा प्रेव्योभूय
पराराधनं, कर्मान्तः कृषिक, शिल्पं वित्तादिविद्या, प्रणयो
यात्रा, विनिमयः परिवर्त्तन क्रयविक्रयलक्षणम्, उपाय उपागतिः
परानुगमः, अमोषां पर्यायाः प्रकारास्तैः खिन्ना आयासिता ये ते
तथा । भाग्यहीना अपि परमसम्पदं भजन्ते तव पदसरमिजसेवया
 

 
इत्याप्रयः ।
 
अगतिकानामपि ऐश्वर्य्यप्रदानप्रभावमभिधत्ते
 
वृत्तिच्छेदे विलक्षः क्षतनिवसनया भार्य्यया भर्त्स्यमानो
दूरादात्मम्भरित्वात्' स्वजनसुतसुहृ इन्धुभिर्वर्ज्यमानः ।
 
१ Orig. प्राजन्मनि । २ Orig. परिवर्त्तनः । ३ Orig. लक्षणः ।
8 A. निवसनयाः 1 ५ A, B. नल्यमानो । ६ A. omits त् ।