This page has been fully proofread once and needs a second look.

यस्याम्नायभैक्ष्यं श्रोत्रपात्रे न विश्रान्तम् । आम्नायो गुरुपारम्पर्य्येण
उपदेशः । स एव भिक्षार्हत्वाद् भैक्ष्यम्[^१] । गुरुभिरुपाध्यायप्रभृ-
तिभिः उपहृतं उपढौकितम् । यश्च य एव मूकताम् अवच-
नीयताम् अभ्युपेतो गतः, अभ्युपैतीति वा पाठः । कुतः ? श्रुतमेव
धनं निधिरिव रक्षणीयत्वात् तेन विरहो विच्छेदस्तस्मात् । क्व ?
विदुषां पण्डितानां गोष्ठीषु सभासु । एतदुक्तं भवति अत्यन्तमूर्खा[^२]
अपि त्वदालोकनाद् महाविद्वांसो भवन्तौति मतिः ॥ २० ॥
 
अत्यन्तदुःखितजनसम्पत्तिदानशक्तिमाह--
 
भूशय्या[^३] धूलिधूम्रः स्फुटितकटितटीकर्पटोकपेटीद्वाघाटिताङ्गो[^४]
यूकायूंषि प्रपिंषन्[^५] परपुरपुरतः कर्परे तर्पणार्थी ।
त्वामाराध्याध्यवस्यन्[^६] वरयुवतिवहञ्च्चामरस्मेरचार्व्वीम्
ब्वर्व्वीं धत्ते मदान्धद्दिविपदशन[^७]घनामुड़तैद्धृतैंकातपचात्राम् ॥ २१ ॥
 
॥ २१ ॥ भूशय्येति--
 
हे अशरणजमचानत्राणचूड़ामणे लात्वाम् आराध्य उर्गोंव्वीं धत्ते । अध्य-
वस्यन् उद्योगमावहन् । कौकीदृशीम् ? वरयुवतिभिः उत्तमनाथियि-
काभिः वहद् विबिभ्रत् चामरं तेन स्मेरा ईषडूद्धसितवदना चार्व्वी
-----------------------------------------------------------------------------------------
 
[^१] Orig. adds कर्णात् कांशेन संस्थितम् । [^२] Orig. मूर्धा ।
[^३] A. भूसज्या । [^४] कर्पटोत्घाटिताङ्गो । [^५] यूकायुंषि प्रपिसन्
[^६] A, B. ध्यवश्यं । [^७] A. दसन ।