This page has been fully proofread once and needs a second look.

२६
 
बोडतोजसंग्रहः ।
 
पापाचारानुबन्धाद्धतगविगलत्पूतिपूयास्ववित्र-

त्वमांसा'[^१]सक्तनाड़ी मुखकुहरच लज्जन्तु '[^२]जग्धक्षताङ्गाः ।

युष्मत्पादोपसेवागदवरगुटिकाभ्यासभक्तिप्रसक्ता

जायन्ते जातरूपप्रतिनिधिवपुषः पुण्डरीका'[^३]यताक्षाः ॥
 
१९ ॥
 

 
॥ १८ ॥ पापेत्यादि-

हे वाह्याभ्यन्तरव्याधिव्यथित हृदयानां महौषधे युझत्पादोपसेवा

तब पदकमलसपर्थ्याप्तिः सैव अगदवरगुटिका न विद्यते गढ़ो रोगों

यतो वरगुटिकायाः सा तथा मर्व्वरोगापहरि रसायनमित्यर्थः ।

तत्र योऽभ्यामो नैरन्तव्यैण लेवनं तत्र भक्त्वा श्रङ्ख्या एवमेतन्नान्य-

थेत्यात्मना प्रसक्ताः संलग्ना चे ते तथा जायन्ते नवीनतनवः प्रादु-

र्भवन्ति । कौदृशः ? जातरूपम् अचयकाञ्चनं तत्प्रतिनिधि तत्सदृशं

वपुर्येषां ते । पुण्डरीकम् अम्भोजं तददायतमचि चतुर्येषां ते। पूवें

कौदृशा: ? पापानामाचरणम् आचारस्तत्र योऽनुबन्धः अनुगमः

नैरन्तर्येण सतिः तेन उद्धता: प्रकुपिता ये गदा महाव्याधयस्तेभ्यो

विगलद् निष्पतद् यत् पूतिपूयास्त्रं दुर्गन्धपक्षशोणिताक्तरुधिरन्तेन

वित्राणि अस्वगन्धीनि यानि त्वयांमानि तेषु आमका निबद्धा या

नायः भिरा नाड़ीव्रणानि वा तासां मुखकुहरेषु वदनविवरेषु चलन्तः

स्यन्दन्तो जन्तवस्तदुद्भवाः क्रिमयस्तैर्जग्धानि खादितानि चतानि च
 

-----------------------------------------------------------------------------------------
[^
] A.. मान्सा ।
 
[^] A. गलज्जन्तु ।
 
[^३] A. पुरीका ।