This page has not been fully proofread.

२६
 
बोडतोजसंग्रहः ।
 
पापाचारानुबन्धाद्धतगविगलत्पूतिपूयास्ववित्र-
त्वमांसा'सक्तनाड़ी मुखकुहरच लज्जन्तु 'जग्धक्षताङ्गाः ।
युष्मत्पादोपसेवागदवरगुटिकाभ्यासभक्तिप्रसक्ता
जायन्ते जातरूपप्रतिनिधिवपुषः पुण्डरीका'यताक्षाः ॥ ॥
 
१९ ॥
 
॥ १८ ॥ पापेत्यादि-
हे वाह्याभ्यन्तरव्याधिव्यथित हृदयानां महौषधे युझत्पादोपसेवा
तब पदकमलसपर्थ्याप्तिः सैव अगदवरगुटिका न विद्यते गढ़ो रोगों
यतो वरगुटिकायाः सा तथा मर्व्वरोगापहरि रसायनमित्यर्थः ।
तत्र योऽभ्यामो नैरन्तव्यैण लेवनं तत्र भक्त्वा श्रङ्ख्या एवमेतन्नान्य-
थेत्यात्मना प्रसक्ताः संलग्ना चे ते तथा जायन्ते नवीनतनवः प्रादु-
र्भवन्ति । कौदृशः ? जातरूपम् अचयकाञ्चनं तत्प्रतिनिधि तत्सदृशं
वपुर्येषां ते । पुण्डरीकम् अम्भोजं तददायतमचि चतुर्येषां ते। पूवें
कौदृशा: ? पापानामाचरणम् आचारस्तत्र योऽनुबन्धः अनुगमः
नैरन्तर्येण सतिः तेन उद्धता: प्रकुपिता ये गदा महाव्याधयस्तेभ्यो
विगलद् निष्पतद् यत् पूतिपूयास्त्रं दुर्गन्धपक्षशोणिताक्तरुधिरन्तेन
वित्राणि अस्वगन्धीनि यानि त्वयांमानि तेषु आमका निबद्धा या
नायः भिरा नाड़ीव्रणानि वा तासां मुखकुहरेषु वदनविवरेषु चलन्तः
स्यन्दन्तो जन्तवस्तदुद्भवाः क्रिमयस्तैर्जग्धानि खादितानि चतानि च
 
१ A.. मान्सा ।
 
२ A. गलज्जन्तु ।
 
१ A. पुढरीका ।