This page has been fully proofread once and needs a second look.

रुडःद्धः संग्रामकाले प्रबलभुजबलैर्विद्विषद्भिर्दिद्विषद्धिभि[^१]-
स्त्वद्दत्तोत्साहपुष्टिः प्रसभमरिमहौहीमेकवौवीरः पिनष्टि[^२] ॥ १८ ॥
 
॥ १८ ॥ [^३]गर्जदित्यादि--

हे संग्रामोत्तारिणि त्वद्दत्तोत्साहपुष्टिः सन् एकवीरः पिनष्टि ।
एकोऽसहायः यो वौवीरः मःसः । त्वया दत्तार्पिता उत्साहस्य[^४] वीर्य्यस्य
पुष्टि: पोषणं वृद्धिर्यस्य स तथा प्रमभं हठाद् रिमहीहीं रिपो-
र्भूमिं संचूर्णयति । कौकीदृशः ? रुद्धः र्व्वतो वेष्टितः । कैः? द्विषद्भिः
शत्रुभिः विद्विषद्भिः विद्वेषमावद्भिः । किम्भूतैः ? प्रबलानि अत्यु -
द्रिक्तानि भुजानां बलानि शक्तयो येषां तैः । क्व ? संग्रामकाले ।
संग्राममेव प्रावृषा निरूपयति । गर्जन्तो नदन्तो ये जौजीमूता
मेघास्तेषामिव मूर्त्तय[^५] श्राकारा येषां त्रिमदानां त्रिगण्डगलित-
द्विपानां तेषां या मंदनद्यो दाननिर्झरिष्ण्यस्तासु बद्धाः संलग्ना या
धारास्ताभिः अन्धकारीरो दुरालोको यत्र तस्मिन् । किम्भूते ? विद्युदिव
द्योतायमानः प्रकाशयन् प्रहरणानाम् अस्त्राणां किरणो यत्र तस्मिन्
निष्पतन्तीतो वाणानां वर्षा दृवृष्टयो यत्र तत्र । एतेन एतदुकं संग्रामा-
ङ्गनसङ्गता अपि त्वत्प्रसादात् निस्तरन्तौतीति भावः ।
 
महाव्याधिशातनशक्तिमाह--
-----------------------------------------------------------------------------------------
[^१] À. द्विषत्भिः [^२] B. पिनस्ति ।
[^३] Orig. omits गर्जदित्यादि ।
[^४] Orig. adds उद्यमन अर्णस्य after उत्साहस्य ।
[^५] Orig. मूर्त्तयो ।