This page has been fully proofread once and needs a second look.

रुडः संग्रामकाले प्रबलभुजबलैर्विद्विषद्भिर्दिषद्धि [^१]-
त्वद्दत्तोत्साहपुष्टिः प्रसभमरिमहौमेकवौरः पिनष्टि[^२] ॥ १८ ॥
 
॥ १८ ॥ [^३]गर्जदित्यादि-
हे संग्रामोत्तारिणि त्वत्तोत्साहपुष्टिः सन् एकवीरः पिनष्टि ।
एकोऽसहायः यो वौरः मः । त्वया दत्तार्पिता उत्साहस्य[^४] वीर्य्यस्य
पुष्टि: पोषणं वृद्धिर्यस्य स तथा प्रमभं हठाद् रिमही रिपो-
र्भूमिं संचूर्णयति । कौदृशः ? रुद्धः मर्व्वतो वेष्टितः । कैः? द्विषद्भिः
शत्रुभिः विद्विषद्भिः विद्वेषमावद्भिः । कितैः ? प्रबलानि अत्यु -
द्रितानि भुजानां बलानि शक्तयो येषां तैः । क्व ? संग्रामकाले ।
संग्राममेव प्रावृषा निरूपयति । गर्जन्तो नदन्तो ये जौमूता
मेघास्तेषामिव मूर्त्तय[^५] श्राकारा येषां त्रिमदानां त्रिगण्डगलित-
द्विपानां तेषां या मंदनद्यो दाननिर्झरिष्यस्तासु बद्धाः संलग्ना या
धारास्ताभिः अन्धकारी दुरालोको यत्र तस्मिन् । किम्भूते ? विद्युदिव
द्योतायमानः प्रकाशयन् प्रहरणानाम् अस्त्राणां किरणो यत्र तस्मिन्
निष्पतन्ती वाणानां वर्षा दृष्टयो यत्र तत्र । एतेन एतदुकं संग्रामा-
ङ्गनसङ्गता अपि त्वत्प्रसादात् निस्तरन्तौति भावः ।
 
महाव्याधिशातनशक्तिमाह
-----------------------------------------------------------------------------------------
[^] À. द्विषत्भि
भिः [^२] B. पिनस्ति ।
[^
] Orig. omits गर्जदित्यादि ।
8[^४] Orig. adds उद्यमन व्यर्णस्य after उत्साहस्य ।
[^] Orig. मूर्त्तयो ।
२ B. पिनस्ति ।