This page has been fully proofread once and needs a second look.

॥ १६ ॥ भर्तृभू इत्यादि-
हे अशेषबन्धविध्वंसिनि, यः पुमान् यायात् गच्छेत् श्रार्थ-
तारायाः चरणमेव शरणं त्राणं तस्य भावस्तत्वाणताम् । खिग्ध-
बन्धूज्झितोऽपि स्निग्धाः प्रेमाद्रकृतमनसो ये बन्धवो मित्राणि तैः
उज्झितोऽपि मन्यक्त एव सन् । ताम् अनुभूतां व्यापदं विपत्तिं
दुरन्तां दुःख होऽन्तोऽवसानं यस्यास्तां सद्यस्तत्चणादेव त्यजति प्रति-
चिपति दूरौकरोतीत्यर्थः। कीदृशः ? भर्त्तुः प्रभोः भूभेदो भृकुटि:[^१]
भ्रुवो भङ्गुरता तस्माद् भौतास्वस्ता उद्भटा: प्रसिद्धाः कटके ये
भटाः राजधान्यां प्रेष्यवौरास्तैराकृष्टाः उच्चैर्निष्पौड्या[^२] दुःस्लिष्टा[^३]
इतस्ततौचताः केशा यस्य स तथा । किम्भूतः ? चञ्चन्तः इतस्ततः
परिभ्रमन्तो वाचाटाः वावदूका बहुवल्गिनो ये नेटा दामास्तेषां
यदुत्कटं रटितम् मह्यं प्रलपितं तेन कटुग्रन्थिस्तीव्रबन्धो येषु
पाशेषु तैरुपगूढ़ः सुबद्धः स तथा । चुद्[^४] बुभुचा वट् पिपासा ताभ्यां
चाम: शुष्क श्रोष्ठाभ्यां वह कण्ठो यस्य स तथा ।
 
रचोऽभिधातुमाह--
 
मायानिर्माण कर्मक्रम कृतविकृतानेकनेपथ्यमिथ्या-
रूपारम्भानुरूपप्रहरणकिरणाडम्बरोड्डामराणि[^५] ।
-----------------------------------------------------------------------------------------
[^१] Orig. omits: । [^२] Orig. निःपीड्या ।
[^३] Orig. adds नीता before it. [^४] Orig. क्षत् ।
[^५] A. डामरो डामराणि ।