This page has been fully proofread once and needs a second look.

खग्धरास्तोत्र टौका 1
 
॥ १६ ॥ भर्तृभू इत्यादि-

हे अशेषबन्धविध्वंसिनि, यः पुमान् यायात् गच्छेत् श्रार्थ-

तारायाः चरणमेव शरणं त्राणं तस्य भावस्तत्वाणताम् । खिग्ध-

बन्धूज्झितोऽपि स्निग्धाः प्रेमाद्रकृतमनसो ये बन्धवो मित्राणि तैः

उज्झितोऽपि मन्यक्त एव सन् । ताम् अनुभूतां व्यापदं विपत्तिं

दुरन्तां दुःख होऽन्तोऽवसानं यस्यास्तां सद्यस्तत्चणादेव त्यजति प्रति-

चिपति दूरौकरोतीत्यर्थः। कीदृशः ? भर्त्तुः प्रभोः भूभेदो भृकुटि:

भ्रुवो भङ्गुरता तस्माद् भौतास्वस्ता उद्भटा: प्रसिद्धाः कटके ये

भटाः राजधान्यां प्रेष्यवौरास्तैराकृष्टाः उच्चैर्निष्पौड्या" दुःस्लिष्टा

इतस्ततौचताः केशा यस्य स तथा । किम्भूतः ? चञ्चन्तः इतस्ततः

परिभ्रमन्तो वाचाटाः वावदूका बहुवल्गिनो ये नेटा दामास्तेषां

यदुत्कटं रटितम् मह्यं प्रलपितं तेन कटुग्रन्थिस्तीव्रबन्धो येषु

पाशेषु तैरुपगूढ़ः सुबद्धः स तथा । चुद्बुभुचा वट् पिपासा ताभ्यां

चाम: शुष्क श्रोष्ठाभ्यां वह कण्ठो यस्य स तथा ।
 

 
रचोऽभिधातुमाह
 

 
मायानिर्माण कर्मक्रम कृतविकृतानेकनेपथ्यमिथ्या-

रूपारम्भानुरूपप्रहरणकिरणाडम्बरोड्डामराणि ।
 

-----------------------------------------------------------------------------------------
१ Orig. omits: 1

Orig. adds tar before it.
 
२३
 

२ Orig. निःपौया ।

8 Orig. क्षत् ।
 

५ A. डामरो-डामराणि ।