This page has been fully proofread once and needs a second look.

॥ १४ ॥ वज्रेत्यादि-
हे सकलजनवत्सले मृगरिपुस्त्रस्यन्नावृत्य याति । मृगाः करिणः
पशवो वा तेषां रिपुः सिंहस्त्रस्यन् भयमावहन् आवृत्य व्यापाराद्
दूरं पलायते । कुतः ? त्वय्येव उचितम् अनुरूपं रचितं निष्पादितं
यत् स्तोत्रं तेन दिग्धो विलिप्तोऽर्थो यस्याः एवंविधाया वाचो
वचनादर्थात् पुरुषस्येति । कीदृशः ? तीक्ष्णदंष्ट्रया उत्कटं भीषणम्
आस्यं मुखं यस्य सः । तथा उपयुद्धे क्रुध्यन् रोषं कुर्व्वन्, आपित्सुः
आपतितुमिच्छुः । किम्भूतः ? वज्रवत् क्रूरप्रहाराणि प्रखराणि
तीक्ष्णानि नखानां मुखानि अग्रभागास्तैत्खाताः उत्कौर्णा मत्ता-
नाम् इभानां कुम्भिनां ये कुम्भाः शिरोदेशास्तेषु श्चोतन्ति स्रवन्ति
सान्द्राणि घनानि यानि अस्राणि रुधिराणि तैर्धौताः प्रक्षालिताः
स्फुटविकटा अत्यन्तभीषणा याः सटाः केशरास्ताभिः सङ्कटः स्कन्धस्य
धमने: सन्धिरन्तरालं यस्य स तथा ।
 
फणिनं वक्तुमाह--
 
धूमावर्त्तान्धकाराकृतिविकृत फणिस्फारफुत्कारपूर-
व्यापारव्यात्तवक्त्स्फुरदुरुरसनारज्जुकौकीनाशपाभैःशैः

पापात् सम्भूय भूयस्तव गुणगणनातत्पर स्त्वत्परात्मा
धत्ते मत्तालिमालावलयकुवलयस्रग्विभूषां विभूतिम् ॥ १५ ॥
 
॥ १५ ॥ धूमेत्यादि-
हे विपद्तजनोदाचद्वीक्षणपरे त्वत्परात्मा भूयः पुनर्विभूतिं सम्पदं