2023-03-28 16:35:40 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
श्रतिव्यक्तं लिखितं विन्यस्तं पदं यत्र तत् तथा । किं विशिष्टान् ?
भृकुटि: परभौषणो य उच्चैर्ललाट सङ्कोचस्तया मह वर्त्तते कुटिले
भङ्गुरे ये भ्रुवौ ताभ्यां कटाचेण ईचितं तिर्थग्वलितेन आलो -
कितं चयोस्ते तथा तादृशे अने चक्षुषी येषां तान् । कीदृशान् ?
कराग्रग्रहेण मुष्टिनिष्पौड़नेन विलसन्तः सम्पजलजलायमाना ये
अतिस्फोटका: खड़ गायधारास्तैः स्फोतोऽतिप्रौढ़ो दपेऽहङ्कारो येषां
तान् । कभ्याम् ? शून्याटव्याम् शून्या निर्जना या टवी कान्तारं
तस्याम् । किम्भूतायाम् ? प्रौढ़ो यः प्रासप्रहारोऽतिनिष्ठुरखुन्ता-
घातस्तेन प्रहता ये नरास्तेषां शिरःस कपालेषु याः शूल च लगः
शूलयष्टयः ताभिः ताबां वा उत्सवो मङ्गलं हर्षो वा यस्या यत्र
वा तस्याम् ।
सिंह कथयितुमाह
वज्ञक्रूरप्रहारप्रखरनख[^१]मुखोत्खातमत्तेभकुम्भ-
श्चोतत्सान्द्रास्त्रधौतस्फुटविकटसटासङ्कटस्कन्धसन्धिः[^२] ।
त्रुध्यन्ना[^३]पित्सुरारादुपरिमृगरिपुस्तौक्ष्णदंष्ट्रोत्कटास्य-
स्त्रस्यन्नादृत्य याति त्वदुचितरचितस्तोत्रदिग्धार्थवाचः[^४]॥ १४ ॥
-----------------------------------------------------------------------------------------
[^१] A. णख । [^२] A. सधिः ।
[^३] A. कुध्येन्ना । [^४] A. ष्टोत्रदृग्धार्थवाचः ।