This page has been fully proofread once and needs a second look.

विपुलाचलमस्तक इव शिरोऽर्थात् तस्यैव दन्तिनः कुम्भस्थलं तस्य
कोटिरग्रं सैव कोट्टाङ्गस्थानमिव तत्र उपविष्टो निषण्णो यः स तथा ।
प्रहृष्टोऽत्यानन्दितः सन्। कस्य ? द्विपस्य करिणः । किम्भूतस्य ?
दानाम्भो मदजलं तेन पूर्य्यमाण: सम्भूयमानः उभयकटः सव्येतर-
गण्डस्थलं स एव कटका गिरेरधोभूरिव अतिविस्तीर्णत्वात् तत्र
आलम्बिनां लोलम्बानां भ्रमराणां या माला पकिस्तस्या ह्रङ्कारो
मञ्जुगुञ्जध्वनिस्तेन आहूयमानाः सम्मखीक्रियमाणा ये प्रतिगजा
विपक्षदन्तिन: तैर्जनित उत्पादितो द्वेष एव वह्निः अनलो यस्य
तय्य ॥ १२ ॥
 
चौरानभिधातुमाह--
 
प्रौढ़प्रासप्रहारप्रहतनरशिरःशूलवल्लुल्युत्सवायां[^१]
शून्याटव्यां कराग्र[^२]ग्रहविलसदसिस्फोटकस्फीत[^३]दर्पान् ।
दस्यून् दास्ये नियुङ्क्ते[^४] सभृकुटिकुटिलभ्रूकटाक्षेक्षिताक्षां-
श्चिन्तालेखन्यखिन्नस्फुटलिखितपदं नाम धाम श्रियान्ते॥ १३ ॥
 
॥ १३ ॥ प्रौढ़ेत्यादि--
 
हे अभयप्रदे ते तव नाम तारे प्रतारेत्यभिधानम् । दस्यून्
दास्ये नियुङ्क्ते चौरान् भृत्यत्वे नियोजयति । कीदृशम् ? श्रियां
धाम निखिल[^५] सम्पदामालय: । पुनः कीदृशम् ? चिन्ता सङ्कल्पः
-----------------------------------------------------------------------------------------
[^१] A. शूलल्युत्सबायां । [^२] B. omits one ग्र [^३] B. स्फोट ।
[^४] A. नियत्ते । [^५] Orig. निखि ।