This page has not been fully proofread.

सग्धरास्तोत्र टीका ।
 
विपुलाचलमस्तक इव शिरोऽर्थात् तस्यैव दन्तिनः कुम्भस्थलं तस्य
कोटिरयं जैव कोट्टाङ्गस्थानमिव तत्र उपविष्टो निषलो यः म तथा ।
प्रहृष्टोऽत्यानन्दितः सन्। कस्य ? द्विपस्य करिणः । किम्भूतस्य ?
दानाम्भो मदजलं तेन पूर्य्यमाण:
सम्भूयमानः
(: उभयकटः मव्येतर-
गण्डस्थलं स एव कटका गिरेरधोभूरिव अतिविस्तीर्णत्वात् तत्र
श्रालम्विनां लोलम्बानां भ्रमराणां या माला पकिस्तस्या हङ्कारो
मञ्जुगुञ्जध्वनिस्तेन त्राहयमानाः सम्मखौक्रियमाणा ये प्रतिगजा
विपचदन्तिन: तैर्जनित उत्पादितो द्वेष एव वह्निः अनलो यस्य
 
तय्य ॥
 
चौरानभिधातुमाह
 
प्रौढ़प्रासंप्रहारप्रहतनरशिरःशूलवतुत्सवायां
शून्याटव्यां कराग्र ग्रहविलसदसिस्फोटकस्फीत दर्पान् ।
दस्टून् दास्ये नियुक्त सम्भृकुटिकुटिलभ्रूकटाक्षेक्षिताक्षां
श्चिन्ता लेखन्यखिन्त्रस्फुटलिखितपदं नाम धाम श्रियान्ते
 
॥ १३ ॥
 
॥ १३ ॥ प्रौढ़ेत्यादि-
हे अभयप्रदे ते तव नाम तारे प्रतारेत्यभिधानम् । दस्यून्
दास्ये नियुते चौरान् मृत्यत्वे नियोजयति । कीदृशम् ? श्रियां
धाम निखिल सम्पदामालय: । पुनः कौदृशम् ? चिन्ता मङ्कल्पः
१ A. शूलल्युत्सबायां । २ B. omits one ग्र ३ B. स्फोट ।
४ A. नियत्ते ।
५ Orig. निखि ।