This page has been fully proofread once and needs a second look.

यो विकटचटत्स्फोटो भीमनादः स एव मोट्टः प्रौढ़ोऽदृहासो
विकृतोच्चैःशब्देन प्रहसनमिव यस्य तस्मात् । चटदित्यनुकरणध्वनिः ।
 
जलमभिधाय अग्निमाह--
 
धूमभ्रान्ताभ्रगर्भोद्भवगमनगृहोत्सङ्गलिङ्गत्[^१]स्फुलिङ्ग-
स्फूर्जज्ज्वाला[^२]करालज्चलनजवविशद्वेश्म[^३]विश्रान्तशय्याः।
त्वय्याबद्धप्रणामाञ्जलिपुटमुकुटा गद्गदोद्गीतयाच्ञाः[^४]
प्रोद्यद्विद्युद्विलासोज्ज्वलजलदजवैराव्रियन्ते[^५] क्षणेन ॥ ११ ॥
 
॥ ११ ॥ धूमेत्यादि--
 
हे परपरित्राणपरायणे त्वयि आबद्धप्रणामाञ्जलिपुटमुकुटा
आव्रियन्ते क्षणेन सन्नह्यन्ते त्वरया परित्रायन्ते इति यावत् । कैः ?
प्रोद्यतीनां प्रकर्षेण उद्भवन्तीनां विद्युतां यो विलासः क्रीड़ा तेन
उज्ज्वला:[^६] अवभासयन्तो ये मेघा जलमुचः तेषां जवैरतिवेगैः ।
त्वयि मातः यो बद्धः प्रणामाञ्जलिपुटमेव मुकुट: किरीटो यैस्ते ।
गद्गदेन अव्यक्ताक्षरेण उद्गीता अभिहिता याच्ञा[^७] मां निस्तारयेति
प्रार्थना यैस्ते । पुनः किम्भूताः ? धूमानां भ्रान्तं भ्रमणं यत्तदेव
अभ्राणि जलदास्तेषां गर्भः सन्धिः सङ्घट्टनं तस्मादुद्भवः प्रादुर्भावो
यस्य तदेव गगनं नभस्तदेव गृहं[^८] तस्योत्सङ्गे क्रोड़े लिङ्गन्त[^९]स्तर-
-----------------------------------------------------------------------------------------
[^१] A. रङ्ग । [^२] A. स्फूर्जज्वाला । [^३] A. विसद्वश्म ।
[^४] Orig. यांचाः । [^५] Orig. वृयन्ते । [^६] Orig. उज्वलाः ।
[^७] Orig. यांचा । [^८] Orig. प्रादुर्भावो गगनं नभस्तस्य यस्य गृहस्य ।
[^९] Orig. रिंगतः ।