This page has not been fully proofread.

खग्धरास्तोत्र टौका ।
 
षो विकटचटत्स्फोटो भीमनादः स एव मोट्टः प्रौढ़ोऽदृहामो
विज्ञतोच्चैःशब्देन प्रहसनमिव यस्य तस्मात् । चटदित्यनुकरणध्वनिः ।
जलमभिधाय अग्निमाह
 
धूमभ्रान्ताभ्रगर्भोद्भवगमनग्टहोत्सङ्गलिङ्गत्'स्पु
लिङ्ग-
स्फूर्जज्वाला' करालज्चलनजवविशद्वेश्म`विश्रान्तशय्याः।
त्वय्याबद्दप्रणामाञ्जलिपुटमुकुटा गहदोगौतयाच्ञाः
प्रोद्यद्दिद्युद्दिलासोज्ज्वलजलदजवैराव्रियन्ते क्षणेन ॥ ११ ॥
 
॥ ११ ॥ धूमेत्यादि-
हे परपरित्राणपरायणे त्वयि आबद्धप्रणामाञ्जलिपुटमुकुटा
आत्रियन्ते चणेन मन्त्रान्ते त्वरया परित्रायन्ते इति यावत् । कैः ?
प्रोद्यतीनां प्रकर्षण उद्भवन्तीनां विद्युतां यो विलासः क्रीड़ा तेन
उज्ज्वला: अवभावयन्तो ये मेघा जलमुचः तेषां जवैरतिवेगैः ।
त्वयि मातः यो बद्धः प्रणामाञ्जलिपुटमेव मुकुट: किरौटो यैस्ते ।
गद्गदेन अव्यक्ताचरेण उद्गीता अभिहिता याच्ञा मां निस्तारयेति
प्रार्थना यैस्ते । पुनः किम्भूताः ? धूमानां भ्रान्तं भ्रमणं यत्तदेव
अभ्राणि जलदास्तेषां गर्भः सन्धिः सङ्घट्टनं तस्मादुद्भवः प्रादुर्भावो
यस्य तदेव गगनं नभस्तदेव गृहं तस्योत्सङ्गे क्रोड़े लिङ्गन्त स्तर-
२ A. स्फूर्जज्वाला । ३ A. विसद्वम ।
५ Orig. यन्ते ।
 
१ A. रङ्ग ।
४ Orig. यांचाः ।
 
{ Orig. उज्वलाः । ७ Orig. यांचा ।
गगनं नभस्तस्य यस्य गृहस्य ।
 
2
 
१७
 
= Orig. प्रादुर्भावो
 
& Orig. रिंगतः ।