This page has been fully proofread once and needs a second look.

कल्पान्तोद्भ्रान्त[^१]वातभ्रमितजलचलल्लोलकल्लोलहेला-
संक्षोभोत्[^२]क्षिप्तवेलातटविकटचटत्[^३]स्फोटमोट्टाट्टहासात् ।
मज्जद्भि[^४]भिन्ननौकैः सकरुणरुदिताक्रन्दनिस्यन्दमन्दैः[^५]
स्वच्छन्दं देवि सद्यस्त्वभिनुतिपरैस्तीरमुत्तीर्य्यतेऽब्धः[^६] ॥ १० ॥
 
॥ १० ॥ कल्पान्तेत्यादि--
 
हे देवि त्वदभिनुतिपरैरुत्तीर्य्यते अन्भेब्धेस्तीरं महासमुद्रात् पार-
मासाद्यते । मद्यस्ततुचसद्यस्तत्क्षणादेव । स्वच्छन्दमपराधीनं यथा स्यात्
तवाभितः सर्व्वतो नुतिरेव परा प्रधाना येषां तैः । भिन्ना विदीर्णा
नौका तरियैर्येषां तैः । मन्ज्द्भिस्तिलं प्रविशद्भिः । कीदृशैः ? सकल-
रु-
णे
न हृदयद्राविणा अतिदौदीनेन यद् रुदितं तेन य आक्रन्दनाद-
स्तुमुलध्वनिस्तेन ये निस्पन्दाश्चेष्टाशून्या इव मन्दा मृता वयं सर्व्वे
इत्यनुत्साहा ये तैः । किम्भूतात् ? कल्पान्तः प्रलयः तत्र उड्भाद्भ्रान्तः
समुत्थित द्रव यो वातः समीरणस्तेन भ्रमितानि आवर्त्ती-
कृतानि यानि जलानि तेषां ये चलन्तः मुद्गच्छन्तो लोला:
कम्पमानाः[^७] कल्लोलास्तरङ्गास्तेषां हेलया विलासेन यः मंचोसंक्षोभो
विह्वलता तस्माद् उचिक्षिप्त उल्लहिङ्घितो बेवेलातटो मर्यादाभूमिस्तत्र
-----------------------------------------------------------------------------------------
[^१] कल्पान्तोत्भ्रान्त । [^२] A. संक्षोभोक्षिप्त ।
[^३] चटास्फोटमुक्ताट्टहासात् [^४] A. मज्जत्भि ।
[^५] A. रुदितैः क्रन्दनिष्पन्नमन्दैः । [^६] A. तेऽब्धे ।
[^७] Oriag. adds उत्तमा धनामीभूता ।