This page has been fully proofread once and needs a second look.

4
 
खग्धरास्तोत्र टीका ।
 
१५
 
॥ ८ ॥ मायेत्यादि -
 

 
युगत्पादाजपूजां तव चरणसरोजसपर्थी चणमपि न लभे मना-

गपि न साधयामि । कुतः ? स्वैर्दोषैस्तुल्यकालं क्रमाच्च वाह्यमानः,

स्खैरात्मौयैदेषैिरपराधैः समकालं यथा येन युज्यमानः । कौदृशो-

ऽहम् ? अनेकसाधारणांशः अनेकेषां बहनां साधारणस्तुल्यः अंशः

आगः यस्य सः । तथा क इव ? मठकरभ इव विहाराष्ट्र इव ।

किं खरूपैः ? माया विद्या, मत्सकाशात् सरतु इति मत्सर स्तस्य

भावो मात्सय्यँ, माया तु कामनालक्षणा तृष्णा, मानञ्चित्तसमुन्नतिः

स च सप्तविधः । त एव प्रभृतयः प्रकारा येषां तैः । अधमैर्वराकैः

प्रज्ञादृष्टिमात्रमावर्त्तयन् । यत्तदर्थे यद् यस्मादित्यर्थः । अहं पर-

प्रेष्योऽतो विशेषादेषा कार्पण्यदनाचरपदरचना एषा स्विदुःखावि-

ष्करणरूपा । कृपणस्य वराकस्य अतिदुर्गतस्य भावः कार्पण्यं तस्मा-

द्दौनमतिकातरं पंरुषम् अचरं येषु तेषां पदानां शब्दानां रचना

ग्रथना । ममाबन्ध्यकामा स्यात्तदर्थविशेषात् पुनःपुनर्विज्ञापया

मौति वाक्यशेषः । अबन्ध्योऽनिष्फल: ३ कामोऽभिलाषो यत्र सा

तथा । विशेषादतिशयेन फलवती यथा स्यादिति वा योज्या ।

मायामात्सर्य्यमानक्लेशादिस्तं निर्जित्य त्वत्पदार विन्दाराधनैकपरो

यथा स्यां तद्विधेहीत्याशयः ।
 

 
दुःखमावेद्य इदानों प्रभावातिशयद्वारेण भगवतौं स्तुवन् दौ

अष्टमहाभयापहरणशक्तिम श्रष्टचोकेनाह
 

-----------------------------------------------------------------------------------------
१ Orig. महं ?
Orig. अनिःफलः ।
 
खदुःखाविःकरणरूपा ।
Orig. खदुःखाविःकरणरूपा ।
अनिःफलः । 8 Orig. क्लेशारिस्तं ।