This page has been fully proofread once and needs a second look.

अनुपदमाकर्णनेन, स्मृत्या पुनः पुनर्मनसि भावनयापि नाम्नापि तारेति
संज्ञाघोषणेनापि । सकलजनानाम्, अखिलतोत्रक तीव्रकलुषशैलाश निस्त्व-
महमपि नातिमन्दपुण्य इत्यर्थः । मयि त्यक्तव्यापारभारा, तदसि
मयि कथं त्यक्त उज्झितो व्यापारस्य भवदुःखोद्धरणलक्षणस्य भारो
गुरुत्वं यया सा, तथा त्वच्चरणशरणेऽपि मयि कस्माद्वेधेतोरसि तदलिसि
तत् कथ्यतां तथ्यकथ्ये सत्यवादिनि, तच्छन्दोऽव्ययस्तस्मादर्थे तस्मा-
दभिधीयता[^१]मिति, तथ्यमवितथं कथ्यं वचनं यस्याः सा । उक्त-
मपि अर्थम् अर्थान्तरन्यासेन द्योतयन्नाह । पथ्यं ग्लाने मरिष्य-
त्यपि म्रियमाणेऽपि रोगिणि पथ्यमौषधं विपुलकृपो महादया-
र्द्रमना भिषक् वैद्यः किं रोरुधौधीति किं निवारयति नैवेत्यर्थः ।
एतेनैतदुक्तं रागादिरोगसङ्गुकुले दुश्चिकित्सितत्वा[^२]दमृतलक्षणं पथ्यं
दातुमईसौति भावः ॥
 
स्वतन्त्रतया भगवतीपदं कमलाराधनावकाशं[^३] प्रकाशयन्
प्रागुतं कार्पण्याभिधानावैयर्थंथ्यं च विज्ञापयन्नाह--
 
मायामात्सर्य्यमानप्रभृतिभिरधमैस्तुल्यकालं क्रमाञ्च्
स्वैर्दोषैर्वाह्यमानो मठकरभ[^४] इवानेकसाधारणांशः[^५] ।
युष्मत्पादाब्जपूनां क्षणमपि न लमेभे यत्तदर्थं विशेषाद्
एषा कार्पण्यदौदीनाक्षरपदरचना स्यान्ममाबन्ध्यकामा ॥
-----------------------------------------------------------------------------------------
[^१] Orig. अभिधायताम् । [^२] Orig. दुश्चिकित्सितत्वामृत ।
[^३] Orig. कमलाराधनानुवकासं ।
[^४] B. करु । [^५] B. साधारणांसः ।