This page has been fully proofread once and needs a second look.

अनुपदमाकर्णनेन, स्मृत्या पुनः पुनर्मनसि भावनयापि नाम्नापि तारेति
संज्ञाघोषणेनापि । सकलजनानाम्, अखिलतोत्रक लुषशैलाश निख-
महमपि नातिमन्दपुण्य इत्यर्थः । मयि त्यक्तव्यापारभारा, तदसि
मयि कथं त्यक्त उज्झतो व्यापारस्य भवदुःखोद्धरणलक्षणस्य भारो
गुरुत्वं यया सा, तथा त्वच्चरणशरणेऽपि मयि कस्माद्वेतोरसि तदलि
तत् कथ्यतां तथ्यकथ्ये सत्यवादिनि, तच्छन्दोऽव्ययस्तस्मादर्थे तस्मा-
दभिधीयता[^१]मिति, तथ्यमवितथं कथ्यं वचनं ययाः सा । उक्त-
मपि अर्थम् अर्थान्तरन्यासेन द्योतयन्नाह । पथ्यं ग्लाने मरिष्य-
त्यपि म्रियमाणेऽपि रोगिणि पथ्यमौषधं विपुलकृपो महादया-
र्द्रमना भिषक् वैद्यः किं रोरुधौति किं निवारयति नैवेत्यर्थः ।
एतेनैतदुक्तं रागादिरोगसङ्गुले दुश्चिकित्सितत्वा[^२]दमृतलक्षणं पथ्यं
दातुमईसौति भावः ॥
 
स्वतन्त्रतया भगवतीपदं कमलाराधनावका[^३] प्रकाशयन्
प्रागुतं कार्पण्याभिधानावैयर्थं च विज्ञापयन्नाद
 
मायामात्सर्य्यमानप्रभृतिभिरधमैस्तुल्यकालं क्रमाञ्च
स्वैर्दोषैर्वाह्यमानो मठकरभ[^४] इवानेकसाधारणांशः[^५] ।
युष्मत्पादाजपूनां क्षणमपि न लमे यत्तदर्थं विशेषाद्
एषा कार्पण्यदौनाक्षरपदरचना स्यान्ममाबन्ध्यकामा ॥६॥
-----------------------------------------------------------------------------------------
[^१] Orig. अभिधायताम् । [^२] Orig. दुश्चिकित्सितत्वामृत ।
[^३] Orig. कमलाराधनानुवकासं ।
[^४] B. करु । [^५] B. साधारणांसः ।