This page has been fully proofread once and needs a second look.

बौद्धस्तोत्रसंग्रहः ।
 
अनुपदमाकर्णनेन, स्मृत्या पुनः पुनर्मनसि भावनयापि नाम्नापि तारेति

संज्ञाघोषणेनापि । सकलजनानाम्, अखिलतोत्रक लुषशैलाश निख-

महमपि नातिमन्दपुण्य इत्यर्थः । मयि त्यक्तव्यापारभारा, तदसि

मयि कथं त्यक्त उज्झतो व्यापारस्य भवदुःखोद्धरणलक्षणस्य भारो

गुरुत्वं यया सा, तथा त्वच्चरणशरणेऽपि मयि कस्माद्वेतोरसि तदलि

तत् कथ्यतां तथ्यकथ्ये सत्यवादिनि, तच्छन्दोऽव्ययस्तस्मादर्थे तस्मा-

दभिधीयता '[^१]मिति, तथ्यमवितथं कथ्यं वचनं ययाः सा । उक्त-

मपि अर्थम् अर्थान्तरन्यासेन द्योतयन्नाह । पथ्यं ग्लाने मरिष्य-

त्यपि म्रियमाणेऽपि रोगिणि पथ्यमौषधं विपुलकृपो महादया-

र्द्रमना भिषक् वैद्यः किं रोरुधौति किं निवारयति नैवेत्यर्थः ।

एतेनैतदुक्तं रागादिरोगसङ्गुले दुश्चिकित्सितत्वा[^२]दमृतलक्षणं पथ्यं

दातुमईसौति भावः ॥
 

 

 
स्वतन्त्रतया भगवतीपदं कमलाराधनावका[^३] प्रकाशयन्

प्रागुतं कार्पण्याभिधानावैयर्थं च विज्ञापयन्नाद
 

 
मायामात्सर्य्यमानप्रभृतिभिरधमैस्तुल्यकालं क्रमाञ्च

स्वैर्दोषैर्वाह्यमानो मठकरभ[^४] इवानेकसाधारणांशः
[^५] ।
युष्मत्पादाजपूनां क्षणमपि न लमे यत्तदर्थं विशेषाद्

एषा कार्पण्यदौनाक्षरपदरचना स्यान्ममाबन्ध्यकामा ॥६॥
 

-----------------------------------------------------------------------------------------
[^
] Orig. अभिधायताम् । [^] Orig. दुश्चिकित्सितत्वाम्टत ।
मृत ।
[^
] Orig. कमलाराधनानुवकासं ।
 
कर
 

[^४]
B. करु । [^५] B. साधारणांसः ।
 
8
 
R