This page has been fully proofread once and needs a second look.

इत्युच्चैरूर्द्ध्वबाहै।हौ नदति नुतिपदव्याजमाक्रन्दनादं
नार्हत्यन्योऽप्युपेक्षां[^१] जननि जनयितुं किम्पुनर्यादृशोशी त्वम् ।
त्वत्तः पश्यन् परेषामभिमतविभवप्रार्थनां प्राप्तुकामो
दोदह्येसोसह्येन भूयस्तरमरतिभुवा सन्ततान्तर्ज्वरेण ॥ ७ ॥
 
॥ इत्युच्चेरूईबाहा विति--
 
हे जननि अन्योऽपि अदयालु: प्रार्थ्यते, अपि इत्यनेन प्रायुगुक्ता-
भिलाषप्रकारेण उच्चैरधिकतरम् ऊर्द्ध्वबाहौ नदति ऊर्द्ध्वम् उपरि
वाबाहू मुभुजौ यस्य तस्मिन् उत्चित्रक्षिप्तभुजे विरुवति जने अाक्रन्दनादं
यथा भवति इति क्रियाविशेषणम् । त्रा उच्चैः क्रन्देन भयविज्ञह्वल-
प्रलापेन नादोऽत्युच्चध्वनिर्यत्र नदने तमेव पुष्णाति । नुतिपदव्याजं
नुतेः पदं शब्दः[^२] वाक्यं वा तन्मिषं । उपेचाम् श्रक्षाम् अवज्ञाम् अवहेलां
जनयितुम् उत्पादयितुं नार्हति नो चितकारी भवति । किं पुनः इत्या-
श्चर्य्याभिधानमतियेनेत्यर्थः । दशदिग्लोकधात्ववस्थित निखिल-
जनातिदुःसहदुःखानलपरित्राणकारणाध्येषणपरायणा तन्निवारणाय
करुणागुणरमणीयान्तःकरण त्वमौणा त्वमीदृशी माता । किञ्च त्वत्तः पश्यन्
परेषां त्वत्तो भवत्याः सकाशात् परेषां त्वद्भक्तिपरायणानाम् अन्येषा-
मभिमतविभवप्रार्थनां प्राप्तुकाम: पश्यन् अवलोकयन् भूयस्तरम्
अतिशयेन अहं दह्ये प्रज्वलितो भवामि । अभिमता अभिलषिता
ये विभवा लौकिकलोकोत्तराः श्रियस्तेषां प्रार्थना यात्राच्ञा[^३] ताम् ।
-----------------------------------------------------------------------------------------
 
[^१] नार्हत्यं न्योप्युपेक्षां । [^२] Orig. omit: ।
[^३] Orig. यांचा ।