This page has been fully proofread once and needs a second look.

इत्युच्चैरूईबाहै। नदति नुतिपदव्याजमाक्रन्दनादं
नार्हत्यन्योऽप्युपेक्षां[^१] जननि जनयितुं किम्पुनर्यादृशोत्वम् ।
त्वत्तः पश्यन् परेषामभिमतविभवप्रार्थनां प्राप्तकामो
दोऽसोन भूयस्तरमरतिभुवा सन्ततान्तर्ज्वरेण ॥ ७ ॥
 
॥७॥ इत्युच्चेरूईबाहा विति-
 
हे जननि अन्योऽपि अदयालु: प्रार्थ्यते, अपि इत्यनेन प्रायुक्ता-
भिलाषप्रकारेण उच्चैरधिकतरम् ऊर्डबाहौ नदति ऊर्द्धम् उपरि
वाहू मुजौ यस्य तस्मिन् उत्चित्रभुजे विरुवति जने अाक्रन्दनादं
यथा भवति इति क्रियाविशेषणम् । त्रा उच्चैः क्रन्देन भयविज्ञल-
प्रलापेन नादोऽत्युच्चध्वनिर्यत्र नदने तमेव पुष्णाति । नुतिपदव्याजं
नुतेः पदं शब्दः[^२] वाक्यं वा तन्मिषं । उपेचाम् श्रवज्ञाम् अवहेलां
जनयितुम् उत्पादयितुं नार्हति नो चितकारी भवति । किं पुनः इत्या-
चर्य्याभिधानमति भयेनेत्यर्थः । दशदिग्लोकधात्ववस्थित निखिल
जनातिदुःसहदुःखानलपरित्राणकारणाध्येषणपरायणा तन्निवारणाय
करुणागुणरमणीयान्तःकरण त्वमौदृशी माता । किञ्च त्वत्तः पश्यन्
परेषां त्वत्तो भवत्याः सकाशात् परेषां त्वद्भक्तिपरायणानाम् अन्येषा-
मभिमतविभवप्रार्थनां प्राप्तुकाम: पश्यन् अवलोकयन् भूयस्तरम्
अतिशयेन अहं दह्ये प्रज्वलितो भवामि । अभिमता अभिलषिता
ये विभवा लौकिकलोकोत्तराः श्रियस्तेषां प्रार्थना यात्रा[^३]ताम् ।
-----------------------------------------------------------------------------------------
 
[^१] नार्हत्यं न्योप्युपेक्षां । [^२] Orig. omit: ।
[^३] Orig. यांचा ।