This page has been fully proofread once and needs a second look.

॥ मातापीत्यादि--
 
हे परमक्षान्तिसम्पन्ने पित्रोरपि अधिकतरा त्वम् । कथम् ?
मातापि पुत्रे तनये स्तन्यहेतोर्दुग्धनिमित्तं बहुधा अतिरुदति
आक्रन्दति सति खेदमायाति विषादमुपैति । जनकोऽपि असत्प्रार्थ-
नासु त्रसन्त्यः असम्भाविन्यः[^१] या वस्तुनो वाञ्छास्तासु प्रयुक्तः प्रति-
दिवसं प्रतिप्रेरितः सन् क्रोधं धत्ते कोपमुद्वहति । त्वं तु भगवती
पुनः, अतिस्नेहवती, सर्व्वेभ्योऽपरिमितजनेभ्योऽभ्यर्थिता सती अर्थान्
यथाभिलषितवस्तूनि विसृजसि परित्यजसि । कथं विसृजसि
इत्याशङ्क्य आह। त्रैलोक्यानां त्रैधातुकान्तर्वर्त्तिनां सत्त्वानां वाञ्छाया
विपुलं महत्फलं यस्याः सा चासौ, महाकल्पवृक्षस्य उत्तमवाञ्छा-
तरोरग्रवल्ली च या सा तथा प्रधानमञ्जरीव त्वमित्यर्थः । अत-
स्त्रैभववदान्याया महाकरुणाद्रीकृतहृदयायाः अत्यल्पमपि अन्यथात्वं
विकारभावो न च नैव जातु कदाचिदपि । एतेन आर्त्तानां
परुषाभिधानेऽपि भवती न परिखिद्यते इति भावः ।
 
किञ्च पूर्व्वकृतप्रतिज्ञामपि भगवत्याः स्मारयन्नाह--
 
या यः क्लेशौघ[^२]वह्निज्वलिततनुरहं तारणी तस्य तस्ये-
त्यात्मोपज्ञं[^३] प्रतिज्ञां कुरु मयि सफलां दुःखपातालमग्ने ।
वर्धन्ते यावदन्ते परुषपरिभवाः प्राणिनां दुःखवेगाः
सम्यक्संबुद्धयाने प्रणिधिधृतधियां[^४] तावदेवानुकम्पा[^५] ॥ ६ ॥
-----------------------------------------------------------------------------------------
[^१] Orig. असंतो संभवनिनोथे वस्तुनोयं चास्तासु ।
[^२] A. क्लेशोघ । [^३] A. आत्मोपज्ञां ।
[^४] A. भृतिधियां । [^५] A. अनुकम्पा ।