This page has not been fully proofread.

१०
 
बौद्धस्तोत्रसंग्रहः ।
 
॥५॥ मातापौत्यादि-
अर्थान्
 
हे परमक्षान्तिसम्पन्ने पित्रोरपि अधिकतरा त्वम् । कथम् ?
मातापि पुत्रे तनये स्तन्यहेतोर्दुग्धनिमित्तं बहुधा अतिरुदति
श्राक्रन्दति सति खेदमायाति विषादमुपैति । जनकोऽपि असत्प्रार्थ-
नासु त्रसन्यः असम्भाविन्यः १ या वस्तुनो वाञ्छास्तासु प्रयुक्तः प्रति-
दिवसं प्रतिप्रेरितः सन् क्रोधं धत्ते कोपमुद्दहति । त्वं तु भगवती
पुनः, प्रतिस्नेहवती, सर्व्वेभ्योऽपरिमितजनेभ्योऽभ्यर्थिता
यथाभिलषितवस्तूनि विसृजसि परित्यजति । कथं विसृजमि
इत्याशय ग्राह। त्रैलोक्यानां वैधातुकान्तर्वर्त्तिनां मत्त्वानां वाञ्छाया
विपुलं महत्फलं यस्याः सा चालौ, महाकल्पवृक्षस्य उत्तमवाञ्छा-
तरोरयवली च या सा तथा प्रधानमञ्जरीव त्वमित्यर्थः । अत-
स्त्रैभववदान्याया महाकरुणाकृतहृदयायाः अत्यल्पमपि अन्यथात्वं
विकारभावो न च नैव जातु कदाचिदपि । एतेन वार्त्तानां
परुषाभिधानेऽपि भवतो न परिखिद्यते इति भावः ।
 
किञ्च पूर्व्वकृतप्रतिज्ञामपि भगवत्याः स्मारयन्नाह
या यः क्लेशौघ वह्निज्वलिततनुरहं तारणौ तस्य तस्ये-
त्यात्मोपज्ञं प्रतिज्ञां कुरु मयि सफलां दुःखपातालमने ।
वर्धन्ते यावदन्ते परुषपरिभवाः प्राणिनां दुःखवेगाः
सम्यक्संबुद्धयाने प्रणिधिष्टतधियां तावदेवानुकम्पा ॥६॥
 

 
१ Orig. संतो संभवनिनोथे वस्तुनोयं चास्तासु ।
२ A. क्लेशोघ ।
 
३ A. आत्मोपज्ञां ।
यू A. अनुकम्पा ।
 
8 A. इतिधियां ।