This page has been fully proofread once and needs a second look.

हिमस्य तुषारस्य या प्रकलशिला खण्ड शिला तइच्छौतले मर्व्व-
क्लेशापहारिणि । तत्र निषणमपि तृष्यन्तं पिपासाकुलम् उपगत-
पिपासं तृषार्त्तमित्यर्थः । अथवा हैमवत्यास्तव अभयायाः सकल-
सत्त्वाशेषभयविनाशिकायाः कूलकच्छे अनुकूल[^१]भूम्येकदेशे निषण्ण-
मपि रागादिदोषाक्रान्तम् । कूलमनुकूलमुच्यते एकदेशे समुदायो[^२]
गम्यते इति न्यायात् यथा सत्यभामा इति । पुनः कीदृशम् ?
रत्नानां द्वौपे जलान्तर्मणिमयस्थलभूभागे या प्रतोली रथ्या तस्या
विपुलमणिगुहैव गृहं वेशा तद्गर्भे स्थितमपि दरिद्रम् अर्थ-
हौनम् । अथवा बुद्धादिरत्नानां यत् स्थलं स द्वौपो भवनमयो-
रन्तर्वर्त्तित्वात्तत्र या प्रतोली मोचद्वारं तस्या विपुलमणिगुहा
सहस्रमुखस्थानं तदेव गेहं तद्गर्भ तदन्तर्वर्त्तिनि स्थाने[^३] । एतज्ज्ञान-
रत्नशून्यो महाकरुणासम्पन्नाया अपि भाग्यापराधान्न तवाहं विषय
इति भावः ।
 
स्वदोषोद्भावनव्याजेन कथं मां परिभाषसे इत्यागड्याह--
मातापि स्तन्यहेतोर्विरुवति बहुशः खेदमायाति पुचे
क्रोधं धत्ते पितापि प्रतिदिवसमसत्प्रार्थनासु प्रयुक्तः ।
त्वं तु चैलेाक्यवाञ्छाविपुलफलमहाकल्पवृक्षाग्रवल्ली
सर्वेभ्योऽभ्यर्थितार्थान् विसृजसि न च ते विक्रिया[^४] जातु काचित् ॥ ५ ॥
-----------------------------------------------------------------------------------------
[^१] Orig. अनुकूत । [^२] Orig. समूदाया । [^३] Orig. नंदरि । [^४] A. विकृया ।