This page has been fully proofread once and needs a second look.

सग्धरास्तोत्र टीका ।
 
हिमस्य तुषारस्य या
 
प्रकलशिला खण्ड शिला तइच्छौतले मर्व्व-

क्लेशापहारिणि । तत्र निषणमपि तृष्यन्तं पिपासाकुलम् उपगत-

पिपासं तृषार्त्तमित्यर्थः । अथवा हैमवत्यास्तव अभयायाः सकल-

सत्त्वाशेषभयविनाशिकायाः कूलकच्छे अनुकूल'

भूम्येकदेशे निषण्ण-

मपि रागादिदोषाक्रान्तम् । कूलमनुकूलमुच्यते एकदेशे समुदायो

गम्यते इति न्यायात् यथा सत्यभामा इति । पुनः कीदृशम् ?

रत्नानां द्वौपे जलान्तर्मणिमयस्थलभूभागे या प्रतोली रथ्या तस्या

विपुलमणिगुहैव गृहं वेशा तद्गर्भे स्थितमपि दरिद्रम् अर्थ-

हौनम् । अथवा बुद्धादिरत्नानां यत् स्थलं स द्वौपो भवनमयो-

रन्तर्वर्त्तित्वात्तत्र या प्रतोली मोचद्वारं तस्या विपुलमणिगुहा

सहस्रमुखस्थानं तदेव गेहं तद्गर्भ तदन्तर्वर्त्तिनि स्थाने । एतज्ज्ञान-

रत्नशून्यो महाकरुणासम्पन्नाया अपि भाग्यापराधान्न तवाहं विषय

इति भावः ।
 

 
स्वदोषोद्भावनव्याजेन कथं मां परिभाषसे इत्यागड्याह
--
मातापि स्तन्यहेतोर्विरुवति बहुशः खेदमायाति पुचे

क्रोधं धत्ते पितापि प्रतिदिवसमसत्प्रार्थनासु प्रयुक्तः ।

त्वं तु चैलेाक्यवाञ्छाविपुलफलमहाकल्पवृक्षाग्रवल्ली

सर्वेभ्योऽभ्यर्थितार्थान् विसृजसि न च ते विक्रिया' जातु

काचित् ॥ ५ ॥
 
3

-----------------------------------------------------------------------------------------
[^१]
Orig. अनुकूत ।
[^२] Orig. नंदरि ।
 
समूदाया । [^३] Orig. समूदाया ।
8
नंदरि । [^४] A. विकृया ।